________________
न्यायकोशः ।
1
1
५३३ एवं प्रतिबन्धकाभावकूट एव कारणम् । तेन मणिसद्भावे यत्किंचि - न्मण्याद्यभावेपि न कार्यम् ( चि० २ ) इति । अत्र मीमांसकमतेन कार्य सहभावेन प्रतिबन्धकत्वं तु कार्यसहभावेन प्रतिबन्धकाभावरूपकारणदिशा व्यवस्थापनीयम्। [ख] कार्यानुकूलकिंचिद्धर्मविघटकत्वम् । यथा केषांचिन्मते दाहानुकूलशक्तिविघटकत्वं मण्यादेः ( न्या० दी० पृ० १४ ) । निश्चयस्य प्रतिबन्धकत्वं पञ्चविधम् । तथाहि । तद्वत्ताबुद्धि प्रति १ तदभाववत्तानिश्चयत्वेन २ तदभावव्याप्यवत्तानिश्चयत्वेन ३ तद्भावावच्छेदकतया गृहीत धर्मवत्तानिश्चयत्वेन ४ तदसमानाधिकरणधर्मवतानिश्चयत्वेन ५ तद्व्यापकतावच्छेदकतया गृहीत धर्मावच्छिन्नाभाववत्तानिश्चयत्वेन च प्रतिबन्धकत्वम् इति । एवम् तद्वद्भेदवत्तानिश्वयत्वादिनापि प्रतिबन्धकत्वमवसेयम् । तत्राद्यं यथा हृदो वह्निमान् इति बुद्धिं प्रति हृदो न वह्निमान् इति निश्चयस्य प्रतिबन्धकत्वम् । द्वितीयम् हृदो वह्नय भावव्याप्यवान् इति निश्चयस्य । तृतीयम् जलवान्वह्नयभाववान् इति निश्चयविशिष्टस्य जलवान्हृदः इति निश्चयस्य । चतुर्थम् वह्नयसमानाधिकरणजलवान् हृदः इति निश्चयस्य । पञ्चमम् हृदो धूमवान् इति बुद्धिं प्रति धूमव्यापकताव - च्छेदकतया गृहीतं यद्वह्नित्वं तादृशवह्नित्वावच्छिन्नाभाववान्हृदः इति निश्चयस्य इति । कार्यमात्रं प्रति तु कामिनीजिज्ञासायाः स्वातन्त्र्येण मणिमन्त्रादिन्यायेन प्रतिबन्धकत्वम् । क्वचित् कार्यविशेषं प्रति स्वातत्र्येण कस्यचित्प्रतिबन्धकत्वम् । यथा दाहं प्रति मणेः प्रतिबन्धकत्वम् इति । प्रत्यक्षं प्रति आनुमानिकनिश्वयो न प्रतिबन्धकः । किंतु शाब्दबोधं प्रत्यानुमानिकनिश्वयः प्रतिबन्धकः इति सामान्यतो निर्णयः ( दीधि० ) । अत्रायमर्थः समानविषये प्रत्यक्षानुमितिसामयोरेककालावच्छेदेन सत्त्वे तयोर्मध्ये प्रत्यक्षसामग्री प्रबला इत्येतदनुभवसिद्धम् । तथा च तादृशप्रत्यक्ष सामग्री तत्रत्यानुमितिं प्रतिबध्नाति । भिन्नविषये तु अनुमितिसामग्र्येव प्रबला । एवं च प्रबलो दुर्बलं प्रतिबध्नाति इत्यनुभवादनत्यविषये प्रतिबध्यप्रति - बन्धकभावप्रयोजकः प्रबल दुर्बलभाव एव इति । अधिकं तु सामग्रीशब्दव्याख्याने संपादयिष्यते इति तत्तत्रावलोकनीयम् 1
I
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org