________________
५३२
न्यायकोशः। भोजनस्य एकादशीश्राद्धादौ प्राप्तिः संभाव्यते इति । २ प्रतिजन्म इति
काव्यज्ञा आहुः । प्रतिबन्दिः -[क] प्रकृतैककल्पे प्रवृत्तं पुरुषमुद्दिश्याप्रकृतकल्पान्तरा
पादनम् । यथा अनुमित्यव्यवहितपूर्ववर्तिसिद्धिभिन्नसिद्ध्यभावमात्ररूपपक्षता चानुमितौ कारणं चेत् तदा स्वसमानाधिकरणानुमित्यव्यवहितपूर्वक्षणवर्तित्वविशिष्टज्ञानं कारणं स्यात् इति प्रतिबन्दिः ( दीधि०
पक्षता० पृ० १२७-१२८)। [ख] समानं विरोध्युत्तरम् (राम० )। प्रतिबन्धः-१ प्रतिरोधः । यथा मणिर्दाहप्रतिबन्धं करोति इत्यादौ ।
२ व्याप्तिः ( सांख्य ० भा० ११००.)। यथा प्रतिबन्धदृशः प्रतिबद्ध
ज्ञानमनुमानम् ( सांख्यसू० अ० १ सू० १०० ) इत्यादौ । प्रतिबन्धकत्वम्-[क] कारणीभूताभावप्रतियोगित्वम् ( कु० १) (दि० ) ( सि० च० १ तेजोनि० पृ० ८ )। अत्र कारणपदं कचित्प्रयोजकपरमपि (मू० म० १)। कारणीभूतेत्यादेरर्थश्व स्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेनाभावत्वावच्छिन्नकारणताया अवच्छेदको यो धर्मस्तद्वत्त्वम् ( कु० १ टी० )। तद्धर्मावच्छिन्नकार्यतानिरूपिताभावत्वावच्छिन्नकारणतानिरूपितस्वावच्छिन्नप्रतियोगिताकत्वसंबन्धावच्छिन्नावच्छेदकताश्रयधर्मवत्त्वम् इति निष्कर्षः । यथा हृदो वह्निमान् इति बुद्धौ हृदो न वह्निमान् इति निश्चयस्य प्रतिबन्धकत्वम् । तथाहि । हृदो वह्निमान् इत्यनुमितौ कारणीभूतो यः अभावः हृदो वह्नयभाववान् इति निश्चयाभावः तस्य प्रतियोगी हृदो वह्नयभाववान् इति निश्चयः इति तस्य तथात्वं संपद्यते । अयं भावः । हृदो वह्नयभाववान् इति निश्चयदशायां ह्रदो वह्निमान् इत्यनुमित्यनुदयात्तादृशनिश्चयाभावस्य तादृशानुमितिं प्रति कारणत्वमङ्गीकर्तव्यम् इति । यथा वा दाहं प्रति मणेः प्रतिबन्धकत्वम् । तथाहि । मणिसमवधानदशायां वह्नाहानुत्पत्त्या दाहं प्रति मण्यभावस्य कारणत्वेन तत्प्रतियोगित्वं संपद्यते । तत्र कारणत्वं मण्यभावत्वेन न तु प्रतिबन्धकाभावत्वेन । अतो नान्योन्याश्रयः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org