________________
न्यायकोशः। प्रतिपत्-चन्द्रस्य प्रथमकलया दर्शनयोग्यत्वसंपत्त्यर्थं यावान्कालोपेक्ष्यते स कालः । तथा च सूर्येण सहातिसंनिकृष्टस्य चन्द्रस्य यावता कालेन सूर्याहादशभिरंशैविप्रकर्षो भवति तावान्कालः शुक्लपक्षे प्रतिपच्छब्दवाच्यः। एवमादित्यादतिविप्रकृष्टस्य चन्द्रस्य यावता कालेन द्वादशभिरंशः संनिकर्षो भवति तावान्कालः कृष्णपक्षे प्रतिपत्तिथिः (पु० चि०
पृ० ३२ )। प्रतिपत्तिः–१ बुद्धिवदस्यार्थीनुसंधेयः । २ [क] मीमांसकांश्च शेषस्य
(प्रधानादिकर्मण्युपयुक्तादवशिष्टस्य ) विहितस्थलविशेषे विनियोगः । यथा चात्वाले कृष्णविषाणां प्रास्यति ( तैत्ति० संहि० ६।११३ ) इत्यादौ इत्याहुः । [ख] धर्मज्ञास्तु फलशून्यकर्माङ्गविशेषः । यथा श्राद्धादौ दत्तद्रव्यस्य कुशमयब्राह्मणपक्षे जलादी निक्षेपः प्रतिपत्तिः । यथा वा पूजितप्रतिमादेश्च जलादी निक्षेपः प्रतिपत्तिः इत्याहुः । [ग] उपयुक्तस्याकोर्णकरतानिवर्तकं कर्म (मी० न्या० पृ० ३४ )। ३ प्रवृत्तिः। ४ प्रागल्भ्यम् । ५ गौरवम् । ६ प्राप्तिः। ७ पदप्राप्तिः इति काव्यज्ञा
आहुः ( वाच०)। . प्रतिपादनम् -१ प्रतिपत्त्यनुकूलशब्दप्रयोगः । यथा श्रुत्यर्थं प्रतिपाद
यतीत्यादौ । २ दानम् इति काव्यज्ञा आहुः । प्रतिप्रसवः-१ [क] प्रतिषिद्धैकदेशस्य पुनर्विधानम्। यथा अग्नीषोमीयपश्वा
लम्भनविधानम् । अत्र रागतः प्राप्तस्य मा हिंस्यात्सर्वा भूतानि इति श्रुतिवाक्येन निषिद्धस्य हिंसासामान्यस्यैकदेश अग्नीषोमीयपश्वालम्भनम् अग्नीषोमीयपशुमालभेत इति श्रुतिवाक्येन विधीयते इति । यथा वा न भक्षयेदेकचरानज्ञातांश्च मृगद्विजान् । भक्ष्येष्वपि समुद्दिष्टान् सर्वान् पञ्चनखांस्तथा ॥ (मनु० अ० ५ श्लो० १७ ) इति निषिद्धस्य सर्वपञ्चनखमांसभक्षणस्यैकदेशस्य पश्चपश्चनखमांसभक्षणस्य विधानम् । पश्चपञ्चनखाश्च मनुस्मृतौ ( अ० ५ श्लो० १८ ) आपस्तम्बधर्मसूत्रे (१।५।१७।३७ ) चोक्ताः परिसंख्याशब्दे प्रदर्शिताः । [ख] निषिद्धस्य पुनः प्राप्तिसंभावना । यथा स्मार्तानां मते एकादश्यां निषिद्धस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org