________________
५३०
न्यायकोशः ।
इत्यत्र लोष्टदृष्टान्तेन क्रियावत्त्वे साधिते निष्क्रियाकाशदृष्टान्तेनात्मनो निष्क्रियत्वमेव किं न स्यात् । लोष्टदृष्टान्तेन क्रियावत्त्वम् आकाशदृष्टान्तेन निष्क्रियत्वं न इत्यत्र नियामकाभावात् इत्यादि ( नील० पृ० ४४ ) । [घ] अनङ्गत्वधिया हेतोः प्रतिदृष्टान्तमात्रतः । प्रत्यवस्थानमाचख्युः प्रतिदृष्टान्तलक्षणम् ।। ( ता० २०२ लो० ११४ ) । प्रतिदृष्टान्तसमश्च बाधप्रतिरोधान्यतरदेशनाभासः ( गौ० वृ० ५1१1९ ) । स च असदुत्तरत्वेन गुणेन्तर्भवति ( दि० १ पृ० २२ ) ।
प्रतिनिधित्वम् — तुल्यरूपतया मुख्यकार्यकारित्वार्थं निधीयमानत्वम् । यथा वैदिककर्मणि पुरोहितस्य औरसाभावे दत्तकादीनां च प्रतिनिधित्वम् । अत्रोच्यते । पुत्रं च विनयोपेतं भगिनीं भ्रातरं तथा । एषामभाव एवान्यं ब्राह्मणं विनियोजयेत् ॥ ( स्कन्दपु० ) इति । तद्यथा वैदिककर्माङ्गद्रव्यादीनां मुख्यानामलाभे तुल्यरूपतयान्यो विधीयते इति । तदेतत् सूत्रकारैः ( कात्यायनश्रौत ० १ कण्डिका ० ४ ) व्यवस्थापितम् । तत्तत्रैव दृश्यम् । तथा दत्तकक्रीतपुत्रादीनां प्रतिनिधित्वं दत्तकमीमांसादौ व्यवस्थापितम् । तत्तत्रैव दृश्यम् ।
T
—
1
प्रतिपक्ष:- -१ विरोध्यनुमानम् । तच्च विरोधिव्याध्यादिमत्तया परामृश्यमानो हेतुः । विरोधिपरामर्शो वा ( दीधि० २ सत्प्रति० पृ० २०८ ) । यथा सत्प्रतिपक्ष इत्यत्र हृदे धूमेन वह्निसाधने वह्नयभावव्याप्यवान् हृदः इति परामृश्यमानो जलरूपो हेतुः तादृशपरामर्शो वा प्रतिपक्षः । २ विप्रतिपत्त्यपरकोटिः ( गौ० वृ० १|१|४१ ) । यथा विमृश्य पक्ष - प्रतिपक्षाभ्यामर्थावधारणं निर्णयः ( गौ० १|१|४१ ) इत्यादौ । ३ विरुद्धपक्ष: । यथा परार्थानुमाने वादिना पर्वते वह्निसाधने कृते प्रतिवादिपक्षः पर्वतो न वह्निमान् इति प्रतिपक्षः । ४ प्रतिवादी इति व्यवहारज्ञा आहुः । ५ विरोधी । ६ शत्रुः इति काव्यज्ञा आहुः । प्रतिपक्षितत्वम् – १ सत्प्रतिपक्ष: । २ प्रतिपक्षवदस्यार्थोनुसंधेयः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org