________________
full
न्यायकोशः।
५२९ प्रतितत्रसिद्धान्तः– ( सिद्धान्तः )[क] समानतत्रसिद्धः परतत्रासिद्धः . प्रतितत्रसिद्धान्तः (गौ० १।१।२९ )। अत्र समानशब्द एकार्थः ।
तेन एकतन्त्रसिद्ध इत्यर्थः । स्वतन्त्रसिद्धः इति पर्यवसितोर्थः (गौ० वृ० १।१।२९)। यथा नासत आत्मलाभः न सत आत्महानम् निरतिशयाश्वेतनाः देहेन्द्रियमनःसु विषयेषु तत्तत्कारणेषु च विशेषः इति सांख्यानाम् । पुरुषकर्मनिमित्तो भूतसर्गः कर्महेतवो दोषाः प्रवृत्तिश्च स्वगुणविशिष्टाश्चेतनाः असदुत्पद्यते उत्पन्नं निरुध्यते इति नैयायिकानाम् ( वात्स्या० १।१।२९)। [ख] वादिप्रतिवाद्येकतरमात्राभ्युपगतस्तदेकतरस्य प्रतितत्रसिद्धान्तः । यथा मीमांसकानां शब्दनित्यत्वम् ( गौ० वृ० १।१।२९ )। यथा वा नैयायिकानां शब्दानित्यत्वम् (प्र० प्र०)। यथा वा नैयायिकस्य मन इन्द्रियम् । तच्च समानतन्त्रे वैशेषिके सिद्धम् (त० भा० पृ० ४३ )। [ग] स्वतन्त्र एव सिद्धोर्थः परतत्रनिवारितः । प्रतितत्रो यथा न्याये सर्वज्ञस्य प्रमाणता॥ (ता०र० श्लो० ६०) इति । प्रति
तत्रसिद्धान्तश्च यथायथं द्रव्यादावन्तर्भवतीति विज्ञेयम् (दि०१पृ०२२), प्रतिदानम्-द्रव्यान्तरग्रहणपूर्वकं दानम् । यथा तिलानस्मै प्रतियच्छ
तीत्यादौ धात्वर्थः ( श० प्र० श्लो० ६९ टी० पृ० ८६ )। प्रतिदृष्टान्तसमः- (जातिः) [क] प्रतिदृष्टान्तेन प्रत्यवस्थानात्प्रति
दृष्टान्तसमः ( गौ० ५।१।९ ) । प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमः । क्रियावानात्मा क्रियाहेतुगुणयोगालोष्टवदित्युक्ते प्रतिदृष्टान्त उपादीयते क्रियाहेतुगुणयुक्तमाकाशं निष्क्रियम् इति । कः पुनराकाशस्य क्रियाहेतुर्गुणः वायुना संयोगः संस्कारापेक्षः वायुवनस्पतिसंयोगवदिति ( वात्स्या० ५।१।९)। [ख] प्रतिदृष्टान्तमात्रबलेन प्रत्यवस्थानम् । मात्रपददानेन साधर्म्यसमव्युदासः । यथा यदि घटदृष्टान्तबलेनानित्यः शब्दस्तदा आकाशदृष्टान्तबलेन नित्य एव स्यात् । नित्यः किं न स्यात् इति बाधः प्रतिरोधो वा आपादनीयः । हेतुरनङ्गम् दृष्टान्तमात्रबलादेव साध्यसिद्धिरित्यभिमानः ( गौ० वृ० ५।१।९)। [ग] दृष्टान्तान्तरेण साध्याभावसाधनम् । यथा आत्मा सक्रियः क्रियाहेतुगुणवत्त्वाल्लोष्टवत् ६७ न्या० को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org