________________
५२६
न्यायकोशः ।
मैन्द्रियकं सर्वगतम् । ऐन्द्रियकस्त्वसर्वगतो घट इति धर्मविकल्पात् । तदर्थ निर्देश इति साध्यसिद्ध्यर्थम् । कथम् । यथा घटोसर्वगत एवं शब्दोप्य सर्वगतो घटवदेवानित्य इति । तत्रानित्यः शब्द इति पूर्वा प्रतिज्ञा । असर्वगत इति द्वितीया प्रतिज्ञा प्रतिज्ञान्तरम् (वात्स्या ०५/२/३) । [ख] प्रतिज्ञातस्यार्थस्य प्रतिषेधे कृते तदूषणोद्दिधीर्षया धर्मस्य धर्मान्तरस्य विशिष्टः कल्पो विकल्पः तस्मात् विशेषणान्तर विशिष्टतया प्रतिज्ञातार्थस्य कथनम् ( गौ० वृ० ५/२/३ ) ( ता० र० परि० ३ लो० १३५ ) । प्रतिज्ञातार्थस्येत्युपलक्षणम् हेत्वतिरिक्तार्थस्य इति तत्त्वम् । तेन उदाहरणान्तरमुपनयान्तरं च प्रतिज्ञान्तरत्वेन संगृहीतं भवति । अत्र प्रतिषेध इत्यनेन झटिति संवरणे विलम्बेनापि स्वयं दूषणं विभाव्य विशेषणे न दोषः इत्युक्तम् ( गौ वृ० ५|२| ३ ) । [ग] परोक्तदोषोद्दिधीर्षता पूर्वानुक्तविशेषणविशिष्टतया प्रतिज्ञातार्थकथनम् ( दि० १ पृ० २२ ) ( नील० पृ० ४५ ) । यथा क्षित्यादिकं गुणजन्यं कार्यत्वादित्यादृष्टजन्यत्वेन सिद्धसाधनोद्भावने सविषयक इति गुणविशेषणदानम् ( नील० पृ० ४५ ) । इदं च पक्षसाध्यविशेषणभेदात्प्रत्येकं द्विविधम् । यथा शब्दः अनित्य इत्युक्ते ध्वनौ बाधेन परेण प्रत्युक्ते वर्णात्मकः शब्दः पक्ष इति प्रतिज्ञान्तरम् । एवम् पर्वतो वह्निमान्सुरभिमलिनधूमवत्त्वादित्युक्ते असमर्थविशेषणत्वेन च परेण प्रत्युक्ते कृष्णागुरुप्रभववह्निमानित्यत्र । एवम् तादृशवही साध्ये यः सुरभिमलिनधूमवान् स वह्निमान् इत्युदाहरणे न्यूनत्वेन प्रत्युक्ते स तादृशवह्निमानित्यत्र । एवमन्यदप्यूह्यम् ( गौ० वृ० ५|२| ३ ) । प्रतिज्ञान्तरं च गुणेन्तर्भवतीति विज्ञेयम् ( दि० १ पृ० २२ ) । प्रतिज्ञाविरोधः-- ( निग्रहस्थानम् ) [क] प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोध: ( गौ० ५।२।४ ) | गुणव्यतिरिक्तं द्रव्यमिति प्रतिज्ञा । रूपादितोर्थान्तरस्यानुपलब्धेरिति हेतु: । सोयं प्रतिज्ञाहेत्योर्विरोधः । कथम् । यदि गुणव्यतिरिक्तं द्रव्यं रूपादिभ्योर्थान्तरस्यानुपलब्धिर्नोपपद्यते । अथ रूपादिभ्योर्थान्तरस्यानुपलब्धिः गुणव्यतिरिक्तं द्रव्यमिति नोपपद्यते
1
I
1
Jain Education International
"
For Personal & Private Use Only
www.jainelibrary.org