________________
न्यायकोशः।
५२७ गुणव्यतिरिक्तं च द्रव्यं रूपादिभ्यश्चार्थान्तरस्यानुपलब्धिरिति विरुध्यते । व्याहन्यते न संभवतीति ( वात्स्या० ५।२।४ )। [ख] कथायां स्ववचनार्थविरोधः । यथा पर्वतो वह्निमान धूमात् यो यो धूमवान् स स निरग्निः इत्युदाहरणे निरग्निश्चायम् इत्युपनये च प्रतिज्ञाविरोधः ( गौ० वृ० ५।२।४ ) । अत्रोच्यते । पदयोर्वाक्ययोर्वा य एकवक्तृकयोर्मिथः । व्याघातो निग्रहस्थानं स्यात्प्रतिज्ञादिरोधनः ॥ इति ( ता० र० परि० श्लो० १३६ ) । [ग] खोक्तसाध्यादिविरुद्धहेत्वादिकथनम् । यथा द्रव्यं गुणभिन्नं रूपादितः पृथक्त्वेनानुपलभ्यमानत्वादिति ( दि. १ पृ० २२ ) ( नील० पृ० ४५ )। प्रतिज्ञाविरोधश्च गुणेन्तर्भवतीति विज्ञेयम् ( दि० १ पृ० २२)। प्रतिज्ञासंन्यासः-( निग्रहस्थानम् ) [क] पक्षप्रतिषेधे प्रतिज्ञातार्थ
स्यापनयनं प्रतिज्ञासंन्यासः ( गौ० ५।२।५ )। पक्षस्य स्वाभिहितस्य परेण प्रतिषेधे कृते सति तत्परिजिहीर्षया प्रतिज्ञातार्थस्यापनयनमपलापः इत्यर्थः (गौ० वृ० ५।२।५)। यथा अनित्यः शब्द ऐन्द्रियकत्वादित्युक्ते परो ब्रूयात् सामान्यमैन्द्रियकम् न चानित्यम् एवं शब्दोप्यन्द्रियको न चानित्य इति । एवं प्रतिषिद्धे पक्षे यदि ब्रूयात् कः पुनराह अनित्यः शब्दः इति । सोयं प्रतिज्ञातार्थनिह्नवः प्रतिज्ञासंन्यास इति ( वात्स्या० ५।२।५)। [ख] स्वोक्तेथे परेण दूषिते तदपलापः । यथा शब्दः अनित्य ऐन्द्रियकत्वादित्युक्ते परेण सामान्ये व्यभिचारमुद्भाव्य दूषिते स्वोक्तमपलपति क एवमाह. शब्दः अनित्यः इति (गौ० वृ० ५।२।५) ( दि० ११२२ ) ( नील० पृ० ४५) ( ता० र० परि० ३ श्लो०
१३७ ) । प्रतिज्ञासंन्यासश्च गुणेन्तर्भवतीति विज्ञेयम् । प्रतिज्ञाहानिः-( निग्रहस्थानम् ) [क] प्रतिदृष्टान्तधर्माभ्यनुज्ञा
स्वदृष्टान्ते प्रतिज्ञाहानिः ( गौ० ५।२।२ )। साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थिते प्रतिदृष्टान्तधर्म स्वदृष्टान्तेभ्यनुजानन्प्रतिज्ञां जहातीति प्रतिज्ञाहानिः । निदर्शनम् ऐन्द्रियकत्वादनित्यः शब्दो घटवदिति कृते अपर आह दृष्टमैन्द्रियकत्वं सामान्ये नित्ये कस्मान्न तथा शब्द इति प्रत्यव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org