________________
न्यायकोशः। वृ० १।१।३३ ) ( दीधि० २ अव० पृ० १६७ )। [ख] साध्यधर्मविशिष्धर्मिप्रतिपादकं वचनम् (त० भा० पृ० ४३ ) (त० दी० २ पृ० २२ )। यथा पर्वतपक्षकवह्निसाध्यकस्थले पर्वतो वह्निमान् इति वाक्यं प्रतिज्ञा। साध्यतावच्छेदकावच्छिन्नसाध्यप्रकारकपक्षतावच्छेदकावच्छिन्नपक्षविशेष्यकबोधजनको न्यायावयवः इत्यर्थः ( नील० २ पृ० २२ ) ( दीधि० )। अत्र निगमनवारणाय च साध्यांशे साध्यतावच्छेदकातिरिक्ताप्रकारकत्वं वाच्यम् । तदर्थश्च साध्यतावच्छेदकप्रकारताविलक्षणप्रकारताशून्यत्वम् । तेन प्रमेयवतः साध्यत्वे नासिद्धिः । उदासीनवारणाय च न्यायान्तर्गतत्वे सति इति विशेषणीयम् । न्यायान्तर्गतत्वे सति प्रकृतपक्षतावच्छेदकावच्छिन्नपक्षकप्रकृतसाध्यतावच्छेदकावच्छिन्नसाध्यविषयताविलक्षणविषयताकबोधाजनकत्वे सति प्रकृतपक्षे प्रकृतसाध्यबोधजनकत्वं तत् । प्रतिज्ञात्वावयवत्वादिकं परिभाषाविशेषविषयत्वरूपम् तत्तद्व्यक्तित्वरूपं च (गौ० ० १॥१॥३३ )। उदाहरणाच्च न पक्षतावच्छेदकविशिष्टे साध्यवैशिष्ट्यज्ञानम् । उपनयाञ्च न पक्षतावच्छेदकविशिष्टे साध्यतावच्छेदकविशिष्टवैशिष्ट्यज्ञानम् इति तयोयुदासः ( दीधि० २ अवय० पृ० १६७ )। [ग] अनुमेयोद्देशः अविरोधी प्रतिज्ञा । प्रतिपिपादयिषितधर्मविशिष्टस्य धर्मिणोपदेशविषयापादनार्थमुद्देशमात्रम् । यथा द्रव्यं वायुः इति । अविरोधिग्रहणात् प्रत्यक्षानुमानागमस्वशास्त्रस्ववचनविरोधिनो निरस्ता भवन्ति । यथा अनुष्णोग्निः इति प्रत्यक्षविरोधी । घनमम्बरम् इत्यनुमानविरोधी। ब्राह्मणेन सुरा पेया इत्यागमविरोधी । वैशेषिकस्य सत्कार्यम् इति ब्रुवतः स्वशास्त्रविरोधी ।
न शब्दोर्थप्रत्यायकः इति स्ववचनविरोधी ( प्रशस्त० २ पृ० २८ )। प्रतिज्ञान्तरम् – (निग्रहस्थानम्) [क] प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरम् (गौ० ५।२।३ )। प्रतिज्ञातार्थः अनित्यः शब्दः ऐन्द्रियकत्वाद्भूटवदित्युक्ते योस्य प्रतिषेधः प्रतिदृष्टान्तेन हेतुव्यभि
चारः सामान्यमैन्द्रियकं नित्यम् इति । तस्मिंश्च प्रतिज्ञातार्थप्रतिषेधे । . धर्मविकल्पादिति । दृष्टान्तप्रतिदृष्टान्तयोः साधर्म्ययोगे धर्मभेदात्सामान्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org