________________
५२४
न्यायकोशः।
भाषा प्रतिज्ञा पक्ष इति नार्थान्तरम् ( मिताक्षरा अ० २ श्लो० ६ )। भाषाशब्दे दृश्यम् । अत्र प्रतिज्ञालक्षणमाह याज्ञवल्क्यः । प्रत्यर्थिनोग्रतो लेख्यं यथावेदितमर्थिना । समामासतदर्धाहर्नामजात्यादिचिह्नितम् ।। इति ( वीरमि० २ पृ० ६१ )। ३ अङ्गीकारः इति काव्यज्ञा आहुः। ४ न्यायावयवः । यथा पर्वतो वह्निमान् इति प्रतिज्ञावाक्यम् । पक्षज्ञानं प्रतिज्ञायाः प्रयोजनम् (त० दी० २ पृ० २२)। लक्षणं च प्रतिज्ञात्वमेव । तच्चात्र हेत्वभिधानप्रयोजकजिज्ञासाजनकवाक्यत्वम् । लिङ्गाविषयकलिङ्गिविषयकज्ञानजनकन्यायावयवत्वं (चि० २ अव० पृ० ७७) वा । इतरान्वितस्वार्थबोधकत्वे सति स्वीयं यदन्त्यभिन्नं पदं तदर्थविशेष्यकान्वयबोधजनकत्वे सति न्यायावयवत्वं वा । अथवा अन्त्यपदवत्त्वे सति स्वीयानन्त्यपदार्थविशेष्यकान्वयबोधाजनकान्यत्वे सति न्यायावयवत्वम् ( दीधि० २ पृ० १७७ ) । यद्वा एतन्न्यायघटकः पर्वतो वह्निमान् इति यः शब्दः तद्वृत्त्यवयवविभाजकोपाधिमत्त्वम् (न्या० म० २ पृ० २३)। प्रतिज्ञात्वं जातिः इति केचिदाहुः , ( चि० २ अव० पृ० ७७ )। वस्तुतस्तु प्रतिज्ञात्वमखण्डोपाधिरेव इत्यन्ये आहुः (म० प्र० २ पृ० ३३ )। प्रतिज्ञावाक्यं च उद्देश्यानुमितिहेतुलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकत्वे सत्युद्देश्यानुमित्यन्यूनानतिरिक्तविषयकशाब्दज्ञानजनकं वाक्यम् । सत्यन्तस्य प्रकृतन्यायावयवत्वं पर्यवसितार्थः । तेन प्रकृतन्यायबहिर्भूतवाक्यवारणम् ( दीधि० २ अवय० पृ० १६७ )। एवमपि बोध्यम् । अथवा उद्देश्यानुमितिहेतुलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकत्वे सत्युद्देश्यानुमितिविषयकलिङ्गाविषयकशाब्दज्ञानजनकं वाक्यम् ( चि० २ अवय० पृ० ७७ )। सा च प्रतिज्ञा [क] साध्यनिर्देश: प्रतिज्ञा (गौ० १।१।३३ )। प्रज्ञापनीयेन धर्मेण धर्मिणो विशिष्टस्य परिग्रहवचनं प्रतिज्ञा । साध्यनिर्देशः अनित्यः शब्दः इति ( वात्स्या० १।१।३३ )। साधनीयस्य अर्थस्य यो निर्देशः स प्रतिज्ञा । तथा च पक्षतावच्छेदकविशिष्टपक्षे साध्यतावच्छेदकविशिष्टवैशिष्ट्यबोधको न्यायावयवः इत्यर्थः । साधनीयश्च वह्निमत्त्वादिना पर्वतादिः (गौ०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org