________________
५२३
न्यायकोशः। कुशादेरिवोपादाने यथेष्टविनियोगे च प्रत्यवायो न स्यात् इति ( श० प्र० श्लो० ६९ टी० पृ० ८५ )। वीरमित्रोदयकारास्तु प्रतिग्रहादेव स्वत्वमुत्पद्यते । अन्यथा पात्रविशेषोद्देशेन त्यागे तेनास्वीकृतेपि तत्स्वत्वोत्पत्तौ परस्मै तस्य प्रतिपादनासंभवप्रसङ्गः इत्याहुः (वीरमित्रो० २ दाय० पृ० ५४२)। [ख] पुण्यार्थकदानजन्यस्वत्वस्य जनकः स्वीकारः । ममेदम् इति ज्ञानमिति यावत् । यथा घनं प्रतिगृह्णातीत्यत्र । अत्र फलीभूतस्वत्ववत्तया धनस्य कर्मत्वं संगच्छते। विक्रयादेर्दानविशेषत्वेपि न तस्य पुण्यजनकत्वम् । अतस्तल्लब्धस्य स्वीकारो न प्रतिग्रहः इति विज्ञेयम् ( श० प्र० श्लो० ७२ पृ० १०९)। प्रतिग्रहस्य स्वत्वजनकत्वे प्रमाणं श्रुतिः याजनाध्यापनप्रतिग्रहैाह्मणो धनमर्जयेत् इति । स्मृतिरपि ब्राह्मणस्याधिकं लब्धम् (गौतमः ) इति । तदर्थश्च मिताक्षरायाम् ( अ० २ व्यव० श्लो० ११४ ) ब्राह्मणस्य प्रतिग्रहादिना लब्धम् तत् अधिकमसाधारणम् ( वीरमित्रो० २ पृ० ५४३ )। [ग] दत्तद्रव्यस्वस्वत्वजनकस्वीकारः । यथा गां प्रतिगृह्णातीत्यादौ ( का० व्या० पृ० ५)। [घ] शाब्दिकास्तु अदृष्टार्थदत्तस्वीकारः ( ल० म० ) इत्याहुः । अयाचितविषये प्रतिग्रहे न दोषः । तदुक्तम् अयाचितोपपन्ने तु नास्ति दोषः प्रतिग्रहे। अमृतं तं विदुर्देवास्तस्मात्तन्नैव निर्णदेत् ।। इति (गारुडे.
अ० २१५ ) ( वाच० )। अदृष्टार्थत्यक्तद्रव्यस्वीकारः इत्यन्ये । प्रतिघातः-१ बलवत्तरवेगप्रयुक्तद्रव्यसंयोगविशेषः । २ मारणम् । प्रतिज्ञा-१ [क] स्वकर्तव्यत्वेन निर्देशः ( राम० )। कर्तव्यत्वप्रकारक
बोधानुकूलव्यापारः इति परमार्थः । यथा अथ हेत्वाभासास्तत्त्वनिर्णयप्रयोजकत्वान्निरूप्यन्ते इति मया तर्कसंग्रहः क्रियते इत्यादि च प्रतिज्ञा। [ख] कर्तव्यत्वज्ञानम् ( राम० पृ० २ )। यथा कारिकावली विशदीकरवाणि इति प्रतिज्ञा। २ व्यवहारज्ञास्तु पक्षाभिधायकः पूर्वपक्षभाषाद्यपरपर्यायो वाक्यविशेषः प्रतिज्ञा। स च वाक्यविशेषः व्यवहारपादविशेषः पूर्वपादः अर्थिपादश्चेत्यभिधीयते ( वीरमित्रो० २ व्यव० पृ० ६० )। यथा ममेदं द्रव्यमनेन गृहीतं न ददाति इत्यादिः प्रतिज्ञा . इत्याहुः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org