________________
५२०
न्यायकोशः। श्छन्दोविशेषः प्रकृतिः इति छन्दःशास्त्रज्ञा आहुः। १६ व्याकरणशास्त्रोक्तकर्मविशेषः ( विकार्यम् )। यथा काशान्कटं करोति इत्यादी
काशादि प्रकृतिकर्म इति। प्रकृतिविकृतिः-महदाद्याः प्रकृतिविकृतयः सप्त इति । अस्यार्थः ।
प्रकृतयश्च ता विकृतयश्चेति प्रकृतिविकृतयः सप्त महदादीनि तत्त्वानि ( सर्व० सं० पृ० ३१७ सांख्य० )। प्रक्रिया-१ निरूपणम् (दि० गु० पृ० १९८ )। यथा नवक्षणा प्रक्रिया दशक्षणा प्रक्रिया एकादशक्षणा प्रक्रिया (मु० गु० पृ० १९८) इत्यादौ । २ पक्षप्रतिपक्षयोः प्रवृत्तिः । यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद्धटवत् इत्येकः पक्षं प्रवर्तयति । द्वितीयश्च नित्यसाधर्म्यात् श्रावणत्वात् नित्यः शब्दः इति ( वात्स्या० ५।१।१६ )। अत्रार्थे व्युत्पत्तिः । प्रक्रिया प्रकर्षेण क्रिया साधनम् । विपरीतसाधनमिति फलितार्थः इति (गौ० वृ० ५।१।१६ )। ३ शब्दप्रयोगसाधनावस्था प्रक्रिया इति शाब्दिका आहुः। ४ प्रकरणम् सा प्रक्रिया या कम् इत्यपेक्षा इति पार्थसारथिमिश्र आह । ५ अधिकारः। ६ नृपादीनां
चामरव्यजनच्छत्रधारणादिव्यापारः इति काव्यज्ञा आहुः । प्रचयः-१ [क] शिथिलाख्यः संयोगः । यथा यत्र द्वाभ्यां तूलकपिण्डाभ्यां प्रचययुक्ताभ्यां तूलकपिण्डान्तरमारब्धम् तत्र परिमाणोत्कर्षदर्शनात् शिथिलाख्यसंयोगरूपः प्रचयस्तादृशावयविपरिमाणस्यासमवायिकारणम् (वै० वि० ७१।९) (वै० उ० ७।१।९ ) ( भा० ५० गु० श्लो० ११३ )। अत्र प्रचयश्चारम्भकः संयोगः । स च स्वाभिमुखकिंचिदवयवासंयुक्तत्वे सति स्वाभिमुखकिंचिदवयवसंयोगलक्षणः । स त्ववयवसंयोगः स्वावयवप्रशिथिलसंयोगापेक्षः परिमाणजनकः । गुणकर्मारम्भे सापेक्षः इति वचनात् (वै० उ० ७।१।९ ) (त० व० )। [ख] किंचिदवयवावच्छेदेनावयवान्तरासंयोगिनि महत्यवयवे वर्तमानः संयोगः इत्येके वदन्ति । अन्य आहुः। अत्र महत्पदं न देयम् । परमाणुसंयोगस्य प्रचयत्वे क्षतिविरहात् इति । अपरे तु भूयोवयवावच्छेदेना
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org