________________
न्यायकोशः। ६ सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः ( सां० सू० अ० १ सू०६१) इति सांख्या आहुः । अयमर्थः । प्रकृतेः कार्य महत्तत्त्वम् । महतश्च कार्योहंकारः । अहंकारस्य कार्यद्वयम् तन्मात्राणि उभयमिन्द्रियं च। तत्रोभयमिन्द्रियं बाह्याभ्यन्तरभेदेनैकादशविधम् । तन्मात्राणां कार्याणि च पञ्च स्थूलभूतानि । स्थूलशब्दात्तन्मात्राणां सूक्ष्मभूतत्वमभ्युपगतम् । पुरुषस्तु कार्यकारणविलक्षणः इति । इत्येवं पञ्चविंशतिर्गणः पदार्थव्यूहः । एतदतिरिक्तः पदार्थो नास्तीत्यर्थः । दिक्कालौ चाकाशमेव इति ( सांख्य० प्र० भा० अ० १ सू० ६१ टी० )। एतन्मते प्रकृतित्वं च तत्त्वान्तरोपादानत्वम् ( सर्व० पृ० ३१८ सांख्य०)। ७ माया अविद्या चेति द्विविधभेदभिन्ना प्रकृतिः इति शांकरा अद्वैतवादिनो मन्यन्ते । ८ जडात्मको भगवदंशविशेषः इति वाल्लभा आहुः । ९ लक्ष्मीरपीति श्रीमध्वाचार्यानुयायिनः प्राहुः । एतन्मते च प्रकृतिर्द्विविधा चित्प्रकृतिः जडप्रकृतिश्च । तत्राद्या लक्ष्मीः। द्वितीया तु मृत्पाषाणादिस्थावरात्मकं सर्व जगत् इति विज्ञेयम् ( भाग० १ टी० विजयध्व० )। अत्र लक्ष्मीपदेन भगवदिच्छा संगृह्यते ( मध्व० भाष्य० १।४।२५)। १० शरीरावस्था इति भिषजो वदन्ति । ११ मूलस्वरः प्रकृतिः इति गायका गायन्ति । १२ शाक्तास्तु प्रकृत्यंशदेवीपञ्चकरूपशक्तिविशेषः इत्याहुः । अत्रोक्तम् गणेशजननी दुर्गा १ राधा २ लक्ष्मीः ३ सरस्वती ४ । सावित्री ५ च सृष्टिविधौ प्रकृतिः पञ्चमी स्मृता ॥ इति। १३ प्रकृतिशब्दवाच्यो विष्णुः इति श्रीपूर्णप्रज्ञाचार्या व्याचक्रुः (मध्वभा० )। अत्र ब्रह्मसूत्रम् ॐ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॐ इति (७० सू० १।४।२४ )। प्रकृतिः प्रकृष्टकरणात् ( सर्व० सं० पृ० १४१ पूर्णप्र०)। अत्र प्रकृतिशब्देन समवायिकारणं (ब्रह्म) ग्राह्यम् इत्यद्वैतिनो मायावादिनो मन्यन्ते । १४ स्वाम्यमात्यादिराज्याङ्गं प्रकृतिः इति नीतिशास्त्रज्ञा आहुः । अत्रोच्यते। स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च । राज्याङ्गानि ७ प्रकृतयः पौराणां श्रेणयोपि च ॥ इति ( अमरः काण्ड० २ क्षत्रि० श्लो० १७-१८)। १५ एकविंशत्यक्षरपादक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org