________________
न्यायकोशः। - चात्र हेतुपञ्चमी । गुणातिरिक्तहेतौ पञ्चम्यनुशासनविरहात् (ग० व्यु०
का० ५ पृ० १०८) । अत्र गुणत्वं च स्वप्रयोज्याश्रयवृत्तित्वम् । तेन वह्निमान् धूमादित्यादौ धूमस्य गुणत्वप्राप्त्या विभाषा गुणेस्त्रियाम् ( पा० सू० २।३।२५ ) इत्यनेन धूमपदात्तृतीयापञ्चम्यौ संगच्छेते (ग० अवय० हेतु० । अत्र समवायि-असमवायि-निमित्त-एतत्रितयसाधारणं कारणत्वम् । न तु समवायिकारणत्वमानं विज्ञेयम् । तेन दण्डाझुटो जायत इति प्रयोग इष्यते । अत एव यतो द्रव्यं गुणाः कर्म इत्यादौ पञ्चमी (ग० व्यु० का० ५ पृ० १०८ )। यतः ईश्वरात् । अथ वा केवलं समवायिकारणम् (वै०. वि० ) (वै० उ० ८।२।५ )। यथा पृथिवी गन्धज्ञाने (घाणे ) प्रकृतिः (वै० सू० ८।२।५ ) इत्यादौ। अथवा स्वजनकनाशप्रतियोगि । यथा दुग्धं दनः प्रकृतिः ( राम० १ पृथिवी० पृ० ६८) । यथा वा महापटः खण्डपटस्य प्रकृतिः (मु० १ पृथिवी० )। स्वजनकेत्यस्यार्थश्च स्वम् दधि। तस्य जनको यो नाशः दुग्धनाशः तस्य प्रतियोगि दुग्धम् तत्त्वं दुग्धे इति । एवम् खण्डपटस्य जनकीभूतो नाशः महापटनाशः तत्प्रतियोगित्वं महापटादौ इति द्रष्टव्यम् । ३ यावदाश्रयभाविधर्मः । यथा प्रकृत्या कृपणः स्वभावेन सरलः इत्यादौ । अत्र तृतीयार्थश्चाभेदस्तादात्म्यं वा। एवं च स्वाश्रयाधिकरणयावत्कालवृत्तिकार्पण्यवान् इत्याकारस्तत्र बोधः । अत्र प्रकृत्यादिभ्य उपसंख्यानम् (वार्तिकम् ) इत्यनेन तृतीया विधीयते ( श० प्र० श्लो० ९३ टी० पृ० १२४ )। ४ स्वभावः। ५ मीमांसकास्तु यत्र समग्राङ्गोपदेशः सा प्रकृतिः। यथा दर्शपूर्णमासादिरूपप्रधानयागः प्रकृतिः ( इष्टयग्निहोत्रसोमाः प्रकृतयः ) (लौ० भा० पृ० २३) इत्याहुः । अत्रेदं बोध्यम् । यत्र कर्तव्यं सर्व प्रकर्षेण कर्मान्तरनरपेक्ष्येणोपदिश्यते सा प्रकृतिः । यत्र विशेषरूपमेव कर्तव्यं श्रुत्योपदिश्यते इतरत्सवं कर्मान्तरादतिदिश्यते सा विकृतिः ( वाच०)। तत्रापि मूलप्रकृतिः अवान्तरप्रकृतिः इति प्रकृतेद्वैविध्यादिकं तु विस्तरभयान्नोच्यते इति । १ अस्त्रियामिति पदच्छेदः । २ गन्धो ज्ञायते अनेन तत् । घ्राणेन्द्रियमित्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org