________________
न्यायकोशः ।
प्रकारता - १ ( विषयता ) [क] विशेषणत्वा परनामा विलक्षणविषयताविशेष: ( नील० १ पृ० १७ ) । यथा अयं घटः इति ज्ञाने विशेपणस्य घटत्वादेर्विशेषणत्वापरनामा विषयताविशेषः ( न्या० म० १ पृ० ४) । [ख] अन्ये तु भासमान वैशिष्ट्य प्रतियोगित्वम् (न्या० म०१ पृ० ५ ) । संसर्गावच्छिन्न विषयतेति यावत् ( नील० १ पृ० १७ ). ( सि० ० च० ) । अत्र विशेष्यता संसर्गतयोस्तु किंचित्संबन्धावच्छिन्नत्वमप्रामाणिकम् इति सिद्धान्तोनुसर्तव्यः । तथा च संसर्गावच्छिन्नत्वं प्रकारताया एव इति भावः । यथा अयं घटः इत्यत्र घटत्वस्य वैशिष्ट्यं भासते तत्प्रतियोगि च घटत्वम् इत्याहु: ( न्या० म० १ पृ० ५ ) । [ ग ] - अपरे तु ज्ञायमानविशेषणप्रतियोगिक संसर्गावच्छिन्नविषयत्वम् इत्याहुः ( वा० ) । २ विषयतानात्मिका प्रतियोगित्वादिनिरूपितावच्छेदकतातुल्यावच्छेदकता विशेषरूपा प्रकारता इति कश्चिदाह ( ग० बाघ० पृ० २ ) । यथा पक्षनिष्ठप्रमाविषयत्वप्रकाराभावप्रतियोगिसाध्यकत्वं बाधः ( चि० २ हेत्वा० पृ० १०३ ) इत्यत्र तादृशविषयत्व निरूपिताअभावनिष्ठा प्रकारता । हृदो वह्निमान् धूमादित्यादौ पक्षः साध्याभाववान् इति ज्ञाने पक्षनिष्ठप्रमाविषयत्वस्य प्रकारः साध्याभावः इति लक्षणसमन्वय: ( दीधि० २ ० २१८ ) । सप्रकारकत्वं विषयताया एव न तु ज्ञानस्य इत्यतिरिक्तविषयतावाद्येकदे शिमताभिप्रायकमतिसूक्ष्मतरमेतत् । प्रकाराश्रयश्च विशेषणोपलक्षणभेदेन द्विविधो बोध्यः । प्रकाश:- - १ ज्ञानम् । यथा अर्थप्रकाशो बुद्धिः इत्यादौ ( त० भा० ) ( त० प्र० ) । अत्र वैशेषिका आहुः प्रागप्रकाशरूपस्य जडस्यात्मनो मनःसंयोगाज्ज्ञानाख्यः प्रकाशो जायते इति ( सांख्य० प्र० भा० अ०१ सू० १४५ ) । २ तेजः । यथा प्रचुरप्रकाशो रविरित्यादौ । तमोविरोध्याकारो हि प्रकाशशब्दवाच्यः ( स० सं० पृ० ४५७ शां० ) । ३ ज्ञानस्वरूप आत्मा प्रकाशः इति सांख्या आहुः । अत्र सूत्रम् जडप्रकाशयोगात् प्रकाशः इति ( सांख्य० सू० अ० १ सू० १४५ ) । अस्मिन्मते प्रकाशत्वं च तेजः सत्त्वचेतन्येष्वनुगतमखण्डोपाधिः अनुगत
1
Jain Education International
For Personal & Private Use Only
५१५
www.jainelibrary.org