________________
५१६
न्यायकोशः। व्यवहारात् इति ज्ञेयम् (सांख्य० प्र० भा० अ० १ सू० १४५)। ४ व्यवहारशास्त्रज्ञास्तु सर्वजनज्ञानविषयः । यथा प्रतिग्रहः प्रकाशः स्यात्स्थावरस्य विशेषतः ( वीरमित्रो० पृ० ५८६ स्मृतिः ) इत्यादौ
इत्याहुः । ५ सर्वश्राव्यं वाक्यं प्रकाशम् इति नाटकज्ञा आहुः । प्रकीर्णम्-१ ग्रन्थविच्छेदः। २ विशकलिततया विद्यमानत्वम् । यथा प्रकीर्णवादस्यायुक्तत्वात् ( त० दी० पृ० ३३ ) इत्यादौ । ३ विभिन्नजातीयानां मिश्रणम् ( वाच० )। यथा भट्टिकाव्ये नानाजातीयप्रत्ययोदाहरणबोधककाण्डम्। ४ विक्षेपः । ५ धर्मज्ञास्तु अनुक्तप्रायश्चित्तविशेषको पापभेदः । अत्रोक्तम् अनुक्तं तत्प्रकीर्णकम् इति ( स्मृतिः ) (वाच०)। यथा प्रकीर्णपातके ज्ञात्वा गुरुत्वमथ लाघवम् । प्रायश्चित्तं बुधः कुर्याद्राह्मणानुमतः सदा ॥ ( विष्णु० ) इत्यादी इत्याहुः । प्रकृतत्वम्- [क] प्रतिज्ञाविषयत्वम् (न्या० र० सामान्यनि० पृ०१०)।
यथा एवम् दुष्टहेतुनिरूपणस्याप्रकृतत्वे दुष्टहेतूनां विभागानहतया ( ग० हेत्वा० पृ० २ ) इत्यादौ । यथा वा प्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितप्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारताघटिते हेत्वाभासलक्षणे ह्रदो वह्निमान् धूमादित्यत्र पक्षतावच्छेदकीभूतहृदत्वस्य साध्यतावच्छेदकीभूतवह्नित्वस्य च प्रकृतत्वम् । [ख] उद्देश्यत्वम् (म० प्र० ४ पृ० ५६ )। यथा प्रकृतान्वयबोधसमानाकारस्वजन्यान्वयबोधविरह आकाङ्क्षा इत्यादौ ( न्या० म० ४ पृ० २२ )। [ग] वर्तमानकाले गृहीतत्वम् । [घ ] प्रकरणप्राप्तत्वम् । [ङ ] आरब्धत्वं
इति केचिदाहुः । [च] अधिकृतत्वम् ( वाच० )। प्रकृतिः—(शब्दः) [क] स्वेतरशब्दार्थाविशेषितस्य यादृशस्वार्थस्यान्वय
बोधं प्रति स्वाव्यवहितोत्तरत्वसंसर्गेण यादृशशब्दवत्ताया निश्चय एव हेतुः तादृशस्तथाविधार्थे प्रकृतिः । यथा पटभूप्रभृतयो हि शब्दाः स्त्रोत्तरविभक्त्याद्यंशे निश्चिता एव स्वोपस्थाप्यस्य वसनजननादेरन्वयं प्रत्ययार्थे कर्मत्वकर्तृत्वादौ बोधयन्ति न त्वन्यथा ( अनिश्चिता अपि )। अत्रेदं बोध्यम् । चैत्रः पचति यजेत इत्यादौ शब्दान्तरधर्मिकसुबादि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org