________________
न्यायकोशः ।
1
सत्प्रतिपक्ष उच्यते । यथा शब्दो नित्यः अनित्यधर्मानुपलब्धेः इति शब्दः अनित्यः नित्यधर्मानुपलब्धेः इति च ( त० भा० पृ० ४९ ) । अत्र च विपरीतार्थसाधकं समानबलमनुमानान्तरं प्रतिपक्ष इत्युच्यते । यथा शब्दः अनित्यः नित्यधर्मानुपलब्धेः इति । यत्पुनरतुल्यबलम् न प्रतिपक्षः । तथाहि । विपरीतार्थसाधकानुमानं त्रिविधम् । उपजीव्यम् उपजीवकम् अनुभयं चेति । तत्राद्यम् बाधकम् । बलवत्त्वात् । यथा अनित्यः परमाणुर्मूर्तत्वादिति । अस्य हेतोः परमाणुसाधकानुमानं नित्यत्वं साधयदपि न प्रतिपक्षः । किंतु धर्मिग्राहकं ( परमाण्वात्मकस्यानित्यत्वरूपसाध्यधर्मिणो ग्राहकम ) प्रमाणं बाधकम् । उपजीव्यत्वेन बलवत्त्वात् । नहि प्रमाणेनागृह्यमाणे धर्मिणि परमाणौ परमाण्वनित्यत्वानुमानमिदं संभवति । आश्रयासिद्धेः इति । तथा च तारतम्यपक्षकानुमानं न समानबलम् । किंतु अधिकबलम् इति तत् परमाण्वनित्यत्वानुमानं प्रति बाधत एवेति न तत् प्रतिपक्षः इति भावः । परमाणुसाधकानुमानं च अणुपरिमाणतारतम्यं कचिद्विश्रान्तम् । परिमाणतारतम्यत्वान्महत्परिमाणतारतम्यवत् इति (त० भा० पृ० ४९ ) । द्वितीयं दुर्बलत्वाद्वाध्यम् । यथा इदमेवानित्यत्वानुमानं स्यात् । तृतीयं तु सत्पतिपक्षः । तुल्यबलवत्त्वात् इति ( त० भा० पृ० ४९ ) । [घ] प्रतिरुद्धः प्रकरणसमः स्यात्प्रतिसाधनैः ( ता० र० श्लो० ८३ ) । [ङ ] तुल्यत्वमभ्युपेत्यैव परहेतो: स्वहेतुना । बाधेन प्रत्यवस्थानं परस्य प्रक्रियासमः || ( ता० २० २ श्लो०११७ ) । प्रकारः – १ सामान्यस्य भेदको विशेष: ( लौ० भा० टी० पृ० ८ ) । यथा द्रव्यं नवविधमित्यादौ पृथिवीत्वादिकं द्रव्यस्य प्रकारः । यथा वा प्रकारान्तरेण विभजते इत्यादौ । २ वक्ष्यमाणप्रकारतावान् ( मु० १ पृ० ११८ ) । यथा दण्डवान्पुरुषः इति वाक्यजनबोधे दण्डः प्रकारः । ३ विशेषणम् । यथा स्वव्यधिकरणप्रकारावच्छिन्ना या या विषयता तत्तदनिरूपकत्वं सर्वांशे याथार्थ्यम् (ग० सामा० ) इत्यादौ प्रकारो विशेषणम् । क्वचित् उपलक्षणमपि प्रकार : ( चि० ) । ४ कचित् सादृश्यमपि प्रकारशब्दार्थः । यथा प्रभृतिग्रहणं प्रकारार्थम् ( सि० कौ० पृ० २० ) इत्यादौ ।'
-
५१४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org