________________
न्यायकोशः। विज्ञातस्य वाक्यार्थस्य परिषदा प्रतिवादिना त्रिरभिहितस्य यदप्रत्युच्चारणं ( अननुवादः ) तदननुभाषणं नाम निग्रहस्थानमिति । अप्रत्युच्चारयन्किमाश्रयं परपक्षप्रतिषेधं ब्रूयात् ( वात्स्या० ५।२।१६ ) । [ख] त्रिरभिधानेपि यत्रानुभाषणविरोधी व्यापारस्तत्राननुभाषणं नाम निग्रहस्थानम् । तदिदं चतुर्धा । एकदेशानुवादात् विपरीतानुवादात् केवलदूषणोक्त्या स्तम्भेन वेति । सर्वनामपदेनानुवादात्पश्चममित्याचार्याः
( गौ० वृ० ५।२।१६ )। अनपदेशः–हेत्वाभासवदस्यार्थीनुसंधेयः ( त० व० )। अनभ्यासदशापन्नज्ञानम्-१ विशेषदर्शनाजन्यं ज्ञानम् । यथा स्थाणुर्वा पुरुषो वा इति संशयः ( सि० च० ४)। अत्रेदं बोध्यम् । अत्रोदाहरणद्वयम् । स्थाणुर्वेत्येकं पुरुषो वेति द्वितीयम् । तथा हि आद्यस्य स्थाणुत्ववान्वा तदभाववान्वेत्यर्थः । द्वितीयस्यापि पुरुषत्ववान्वा तदभाववान्वेति चार्थः । स्थाणुत्वव्याप्यवक्रकोटरादिमानयमिति पुरुषत्वव्याप्यकरादिमानयमिति वा विशेषदर्शने सति स्थाणुत्वस्य पुरुषत्वस्य वा निश्चय एव भवति न तु संशय इति । २ प्राथमिकं ज्ञानम् । यथा इदं जलज्ञानं प्रमा
समर्थप्रवृत्तिजनकत्वात् इत्यत्र प्राथमिकं जलज्ञानम् ( त० कौ० ४)। अनवधारणम्-अनिश्चयात्मकं ज्ञानम् । अनवसरग्रहणम्- (निग्रहस्थानम् ) १ अकाल एवोद्भावनम् । यथा त्यक्ष्यसि चेत्प्रतिज्ञाहानिः विशेषयसि चेद्धत्वन्तरमिति । २ अवसरमतीय कथनम् । यथा उच्यमानग्राह्यस्यापशब्दादेः परिसमाप्तौ । एवमनुक्तग्राह्याज्ञानाद्यननुभाषणावसरेनुद्भाव्यबोधाविष्करणानुभाषणप्रवृत्ते वादिनि तदुद्भावनमित्यादिकमूह्यम् (गौ० वृ० ५।२।२२ ) । इदं निग्रहस्थानं च गौतमोक्तनिग्रहस्थानस्य निरनुयोज्यानुयोगस्य प्रभेद इति वृत्तिकारेणा
ङ्गीकृतमिति विज्ञेयम् । अनवसादः—दैन्यविपर्ययोनवसादः ( सर्वद० पृ० १२४ )। अनवस्था-१ ( तर्कः ) [क] क्लुप्तवस्तुसजातीयवस्तुपरंपराकल्पनस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org