________________
न्यायकोशः ।
स्वविशिष्टसंबन्धिनिष्ठाभावप्रतियोगितानवच्छेदकावच्छेद्यत्वम् ( दीधि० २ ) । यथा पर्वतो वह्निमान् धूमादित्यादौ वह्नित्वात्मकस्य साध्यतावच्छेदकस्य हेतु - (धूम) समानाधिकरणाभावप्रतियोगितानवच्छेदकत्वमित्यादौ ( ग० च० २)।
अनद्यतनत्वम् - [क] प्रकृतशब्दप्रयोगाधिकरणदिनावृत्तित्वम् । यथा तण्डुलमपचदित्यादौ लङर्थः (ग० व्यु० ल० ) । [ख] अद्यतनभिन्नः कालोनद्यतन इति शाब्दिका वदन्ति ( ल० म० ) । अनध्यवसायः- -१ विपर्ययः । यथा इदं किंचित् इति ज्ञानम् । अयं विशेषादर्शनेन जन्यत इति विज्ञेयम् ( सि० च० ४ ) । २ यस्तु ज्ञानविशेषः स्यादसाधारणधर्मजः । जिज्ञासाजनक: सोनध्यवसाय इहोच्यते || भवति हि नित्यानित्यव्यावृत्तं शब्दत्वं शब्दे उपलभमानस्य शब्दः किं नित्यः आहोस्विदनित्यः इति जिज्ञासा । अयं च वैशेषिकमते अविद्याप्रभेदः ( त० व० २१८ ) । ३ अविद्याविशेषः । अनध्यवसायोपि प्रत्यक्षानुमानविषये एव संजायते । तत्र प्रत्यक्षविषये तावत् - प्रसिद्धार्थेष्वप्रसिद्धार्थेषु वा व्यासङ्गादनर्थित्वाद्वा किमिदम् इत्यालोचनामात्रमनध्यवसायः । यथा - वाहीकस्य पनसादिष्वनध्यवसायो भवति । अनुमानविषयेपि नारिकेलद्वीपवासिनः सास्नामात्रदर्शनात् को नु खल्वयं प्राणी स्यात् इत्यनध्यवसायो भवति ( प्रशस्त० २ पृ० ४८ ) । ४ वेदान्तिनस्तु - किंसंज्ञकोयं वृक्षः इति संज्ञाविषयकं जिज्ञासामात्रमित्याहु: ( प्र० प० पृ० ५ ) । ५ हेतुदोषविशेषः ।
अनध्यवसितः - ( हेत्वाभासः) यश्चानुमेये विद्यमानस्तत्समानासमानजातीययोरसन्नेव सोन्यतरत्रासिद्धः अनध्यवसाय हेतुत्वादनध्यवसितः । यथासत् कार्यमुत्पत्तेः इति (प्रशस्त० २ ० २९ - ३० ) । तथा च अनध्यवसितत्वं पक्षमात्रवृत्तित्वम् । यथा- पर्वतो वह्निमान्पर्वतत्वात् इत्यादौ पर्वतत्व हे तावनध्यवसितत्वम् ।
१८
अननुभाषणम् – (निग्रहस्थानम् ) [क] विज्ञातस्य परिषदा त्रिरभिहितस्याप्यप्रत्युच्चारणमननुभाषणम् ( गौ० ५।२।१६ ) ( नील० ) ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org