________________
न्यायकोशः। शब्दाध्याहार एव स्वीक्रियते न त्वर्थाध्याहारः । मीमांसकैस्त्वर्थाध्याहारः स्वीक्रियत इति । २ तर्कः । ३ अपूर्वोत्प्रेक्षणमित्यपि केचित् (वाच०)। अध्यूहनम्-भस्मनाङ्गारैश्चाग्नेरुपर्याच्छादनम् (जै० न्या० अ० १०
पा० १ अधि० ११)। अध्येषणा—(लिङर्थः विधिः) [क] या श्रोतरि पूजा संमानव्यञ्जिका
सा ( कु० ५)। [ख] अध्येषणीये प्रयोक्तुरनुग्रहद्योतिका इच्छा (वै० सा० द०)। [ग] इच्छाविशेषः । यथा पाकं कुर्यामित्यादावुत्तमपुरुषार्थः ( दि० गु०)। [घ] सत्कारपूर्वकमाचार्यादेः प्रेरणमिति केचित् ( वै० सा० द०)। अनङ्गत्रयोदशी—मार्गशीर्ष शुक्लत्रयोदशी (पु० चि० पृ० २२३ )। अनतिरिक्तत्वम्-स्वान्यूनवृत्ति ( यत् ) तत्कत्वम् ( दीधि० २)।
यथाभिधेयत्वानतिरिक्तत्वं प्रमेयत्वस्येति । अनतिरिक्तविषयकत्वम्-[क] प्रकृतपक्षे प्रकृतसाध्यवैशिष्ट्य विषयता
विलक्षणविषयताशून्यत्वम् ( दधि० २)। यथा पर्वते धूमेन वह्निसाधने पर्वतो वह्निमानिति प्रतिज्ञावाक्यजन्यशाब्दबोधस्य पर्वतो वह्निमान् इत्यनुमित्यन्यूनानतिरिक्तविषयकत्वम् । अत्रान्यूनविषयकत्वं च पक्षे साध्यतैशिष्ट्यावगाहित्वम् (दीधि० २)। [ख] प्रकृतहेतुकप्रकृत
साध्यसिद्ध्यौपयिकव्याप्त्यविषयकत्वमिति केचित् ( दीधि० २ )। अनतिरिक्तवृत्तित्वम्- ( अवच्छेदकत्वम् ) १ [क] स्वव्यापकं ( यत् ) तत्कत्वम् । यथा हृदो वन्ह्यभाववान् इति निश्चयविषयितायाः हृदो वह्निमान् इत्यनुमितिप्रतिबन्धकतानतिरिक्तवृत्तित्वम् ( ग० सामा० )। अत्र स्वं विषयिता । तस्याः व्यापिका प्रतिबन्धकता । तत्कत्वं स्वस्मिन्निति बोध्यम् । [ख] तच्छ्न्यावृत्तित्वमिति केचित्। २[क तवच्छिन्नप्रतियोगिताकाभाववदसंबद्धस्वविशिष्टसामान्यकत्वम्। [ख] स्वविशिष्टसंबन्धिनिष्ठाभावप्रतियोगितानवच्छेदकतत्कत्वम् । [ग] १ इदमनतिरिक्तविषयकत्वं दीधितिग्रन्थस्थप्रतिज्ञालक्षणशरीर एव नान्यत्रेति ज्ञेयम् । न्या. को. ३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org