________________
न्यायकोशः। ५११ सामभिर्मध्यंदिनसवने गीयमानानि पृष्ठस्तोत्राणीत्युच्यन्ते ( जै० न्या०
अ० १ पा० ४ अधि० ३)।। पेषणम् – अवयवविभागेन चूर्णनम् । यथा पाटीर तव पटीयान् कः परि
पाटीमिमामुरीकर्तुम् । यत् पिषतामपि नृणां पिष्टोपि तनोषि परिमलै
स्तुष्टिम् ॥ इत्यत्र पिषधात्वर्थः । पैतृकम्-मघा (पु० चि० पृ० ३५३ )। पैशाचः-(विवाहः ) पैशाचः कन्यकाछलात् ( याज्ञवल्क्य० अ० १
श्लो० ६१ )। पौनःपुन्यम्- [क] प्रकृतधात्वर्थजातीयक्रियोत्तरतादृशक्रियानन्तर्यम् ।
यथा पापच्यत इत्यादौ यङोर्थः पौनःपुन्यम् । अत्र निरुक्तानन्तर्यरूपो यर्थः प्रकृत्यर्थे विशेषणत्वेनान्वेति । तेन पाकोत्तरपाकानन्तर्यवत्पाककर्ता इत्येवं वाक्यार्थः ( श० प्र० श्लो० १०८ टी० पृ० १७१ )। [ख] इदानींतनप्रकृत्यर्थसजातीयक्रियान्तरध्वंसकालीनत्वे सति वर्तमानादिकृतिविषयत्वम् । यथा पापच्यत इत्यादौ यङोर्थः (तर्का०४ पृ० ११)। पौरुषेयत्वम्-सजातीयोच्चारणानपेक्षोच्चरितजातीयत्वम् (चि० ४)। यथा __ महाभारतादेः पौरुषेयत्वम्। वेदस्य तु मीमांसकादिमते अपौरुषेयत्वमेव । पौर्णमासी-यः परमो विप्रकर्षः सूर्याचन्द्रमसोः सा पौर्णमासी ( पुरु० ___ चि० पृ० ३३ )। पौष्णम्-रेवती ( पु० चि० पृ० ३५३ )। पौष्कल्यम्-फलजननसामर्थ्यम् (जै० न्या० अ० ४ पा० १ अधि०२)। प्रकरणम्-१ संगतिप्रदर्शनप्रयोजिका आकाङ्क्षा । यथा प्रकरणलाघवाय इत्यादौ ( भवा० )। २ प्रस्तावः । ३ पक्षप्रतिपक्षौ ( साध्यतदभाववन्तौ ) ( वात्स्या० ११२।७)। यथा यस्मात्प्रकरणचिन्ता० (गौ० १।२।७) इत्यादौ । ४ ग्रन्थसंधिविशेषः । यथा प्रथमं प्रकरणम् द्वितीयं प्रकरणम् इत्यादौ । ५ [क ] उभयाकाङ्क्षा प्रकरणम् इति मीमांसका आहुः । अङ्गवाक्यसापेक्षं प्रधानवाक्यमित्यर्थः । अत्र शाबर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org