________________
५१२
न्यायकोशः। भाष्यम् । कर्तव्यस्येतिकर्तव्यताकाङ्कस्य वचनं प्रकरणम् इति । यथा श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात् (जै० सू० ३।३।१४ ) इत्यादौ । [ख] संपन्नवाक्यैकवाक्यतारूपं प्रकरणम् (जै० न्या० अ० ३ पा० ३ अधि० ४)। ६ काव्यज्ञास्तु अभिनेयनायकादिको दृश्यकाव्यविशेषः इत्याहुः । तल्लक्षणमुक्तम् । भवेत्प्रकरणे वृत्तं लौकिकं कविकल्पितम् । शृङ्गारोङ्गी नायकस्तु विप्रोमात्योथ वा वणिक् ॥ सापायधर्मकामार्थपरो धीरप्रशान्तकः इति ( सा० द० परि० ६ श्लो० ५११ ) । तत्र विप्रनायकं 'मृच्छकटिकम् । अमात्यनायकं मालतीमाधवम् । वणिनायकं पुष्पभूषितम् इति ( सा० द० वृ० ६।२२५ )। प्रकरणसमः-१ (जातिः) [क] उभयसाधर्म्यात्प्रक्रियासिद्धेः प्रकरण
समः ( गौ० ५।१।१६ )। तदर्थश्च उभयसाधात् अन्वयसहचारात् व्यतिरेकसहचाराद्वा। प्रक्रिया प्रकर्षेण क्रिया साधनम् । विपरीतसाधनमिति फलितार्थः । तत्सिद्धेः तस्य पूर्वमेव सिद्धेः इति । बाधदेशनाभासोयम् (गौ० वृ० ५।१।१६ )। अत्र भाष्यम् । उभयेन नित्येन चानित्येन साधर्म्यात् । पक्षप्रतिपक्षयोः प्रवृत्तिः प्रक्रिया । अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद्धटवदित्येकः पक्षं प्रवर्तयति। द्वितीयश्च नित्यसाधर्म्यात्। एवं च सति प्रयत्नानन्तरीयकत्वादिति हेतुरनित्यसाधयेणोच्यमानो न प्रकरणमतिवर्तते।अनतिवृत्तेस्तन्निर्णयानिवर्तनम्। समानं चैतन्नित्यसाधर्म्यणोच्यमाने हेतौ । तदिदं प्रकरणानतिवृत्त्या प्रत्यवस्थानं प्रकरणसमः । समानं चैतद्वैधयेपि । उभयवैधात्प्रक्रियासिद्धेः प्रकरणसम इति ( वात्स्या० ५।१।१६) । [ख] अधिकबलत्वेनारोपितप्रमाणान्तरेण बाधेन प्रत्यवस्थानम् । यथा शब्दः अनित्यः कृतकत्वादित्युक्ते नैतदेवम् श्रावणत्वेन नित्यत्वसाधकेन बाधात् ( गौ० वृ० ५।१।१६ )। [ग] वाद्युक्तहेतोः साध्यविपरीतसाधकहेत्वन्तरोद्भावनम् । सत्प्रतिपक्षोदाहरणमेवात्रोदाहरणं बोध्यम् ( नील० पृ० ४४ ) । २ ( हेत्वाभासः ) [क] यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ( गौ० १।२।७)। सूत्रार्थस्तु प्रकृष्टं करणं लिङ्गं परामर्शो वा। को हेतुरनयोः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org