________________
न्यायकोशः ।
५०९
पृ० १०२ ) । अत्रायं नियमः यद्द्रव्यं यद्द्रव्यध्वंसजन्यम् तद्द्रव्यं तदुपादानोपादेयम् इति । दृष्टं चैतत् खण्डपटे महापटध्वंसजन्ये ( मु० १ पृथि० पृ० ६५ ) । भस्म खण्डपट योरवयवानां पाषाणमहापटयोरवयवानां चैक्यम् इति नियमस्याभिप्रायः । अत्र पृथिवीत्वं तु पाकजरूपसमानाधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातिः ( सर्व० सं० पृ० २१८ औलू० ) । अत्र पृथिवीत्वजातिसिद्धिप्रकारस्तु दिनकर्यादिग्रन्थेषु द्रष्टव्यः । विस्तरभयान्नोक्तः । लक्षणं च कटुरससमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वम् गन्धसमानाधिकरण - गन्धासमानाधिकरणगुणासम नाधिकरणजात्यधिकरणद्रव्यत्वम् इत्यादि (वै० उ० २।१।१ पृ०६५ ) । अन्न द्रव्यपदप्रयोजनं चिन्त्यम् । पृथिव्या अध्यात्मादिभेदा यथा पृथिवी पञ्चमं भूतं घ्राणं चाध्यात्ममुच्यते । अधिभूतं तथा गन्धो वायुस्तत्राधिदैवतम् ॥ इति ( भा० आश्व० अ० ४२ ) । [ग] पृथिवीत्वजातिमती । यथा घटः पृथिवी । पृथिवी द्विविधा । नित्या अनित्या च । तत्र नित्या परमाणुलक्षणा । अनित्या कार्यलक्षणा । अनित्या त्रिविधा 1 शरीरम् इन्द्रियम् विषयश्च (वै० ४। २ । १ ) । तत्र शरीरम् द्विविधम् योनिजम् अयोनिजं च ( बै० ४।२।५ ) । तत्र योनिजमस्मदादीनां शरीरं प्रत्यक्षसिद्धम् । अयोनिजं तु क्रिमिदंशादीनाम् । अयोनिजं च अनपेक्ष्य शुक्रशोणितं देवर्षीणां शरीरम् धर्मविशेषस हि तेभ्योणुभ्यो जायते । क्षुद्रजन्तूनां यातनाशरीराणि अधर्मविशेषसहितेभ्यो णुभ्यो जायन्ते ( प्रशस्त० पृ० ४ ) । इन्द्रियम् गन्धग्राहकं घ्राणम् । तच नासाग्रवर्ति । इदम् सर्वप्राणिनां जलाद्यनभिभूतैः पार्थिवावयवैरारब्धम् ( प्रशस्त० पृ० ४ ) । विषयः मृत्पाषाणादिर्ब्रह्माण्डान्तः । स च व्यणुकादिक्रमेणारब्धस्त्रिविधः । मृत् पाषाणः स्थावर । तत्र मृत्पाषाणौ प्रसिद्धौ । स्थावरो वृक्षलतादिः ( त० कौ० ) । तत्र भूप्रदेशाः प्राकारेष्टकादयो मृद्विकाराः । पाषाणा उपलमणिवज्रादयः । स्थावरास्तृणौषधिगुल्मलताप्रतानवनस्पतयः इति ( प्रशस्त० पृ० ४ ) । पृथिव्यां चतुर्दश गुणा वर्तन्ते । रूपम् रसः गन्धः स्पर्शः संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् गुरुत्वम्
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org