________________
૮
न्यायकोशः ।
: (वै० उ० ७/२/२ ) इति । तदर्थश्च पृथक्त्वमपि संख्यावद्गुणान्तरमेव । तत्रैकपृथक्त्वम् एकत्वसंख्यातुल्यम् । द्विपृथक्त्वादिकं च द्वित्वादिसंख्यातुल्यम् इति (वै० वि० ७/२२ ) । पृथक्त्वं सर्वद्रव्यवृत्ति | तथा च पृथक्त्वं द्विविधम् । एकवृत्ति अनेकवृत्ति चेति । तत्रैकपृथक्त्वमेकवृत्ति । द्विपृथक्त्वाद्यनेकवृत्ति ( त० कौ० ) । एवं च पृथक्त्वम् एक पृथक्त्वद्विपृथक्त्वादिभेदेन बहुविधम् ( सि० च० ) । तत्रैकपृथक्त्वं नित्यगतं नित्यम् । अनित्यगतमनित्यम् ( त० कौ० ) । द्विपृथक्त्वादि च नानै कपृथक्त्वविषयकापेक्षाबुद्धिजन्यम् तन्नाशनाश्यं च इति सर्वमनित्यमेव इति च ज्ञेयम् (त० कौ० ) । द्वित्वाद्युत्पत्तिविनाशवद्विपृथक्वाद्युत्पत्तिविनाशावूनीयौ (वै० उ० ७२८ ) ( वाक्य ० १ पृ० ८ ) । 'अत्र नव्या: ( दीधितिकाराः ) मीमांसकाचाहुः । पृथक्त्वमन्योन्याभाव एव न तु गुणान्तरम् इति ( ग० व्यु० का० ५ पृ० ११० ) ( दिं० गु० ) । अन्ये त्वाहुः । पृथक्त्वं चान्योन्याभावाद्भिन्नमेव । अभावस्य प्रतियोगिसापेक्षनिरूपणत्वात् । पृथक्त्वस्य त्ववधिनिरूप्यत्वात् इति
( न्या०ली० गुणनि० पृ० २३ ) ( ता० २० लो० ४५ ) । पृथिवी - (द्रव्यम्) [क] गन्धसमवायिकारणम् (मु० १ ) । तथा च सूत्रम् रूपरसगन्धस्पर्शवती पृथिवी ( ० २।१।१ ) इति । व्यवस्थितः पृथिव्यां गन्धः (वै० उ० २ २ २ ) इति च । [ख] गन्धवती ( त० सं० ) । यथा आम्रादिफलम् । गन्धवतीत्यस्य गन्धसमानाधिकरणद्रव्यत्वव्याप्यजातिमतीत्यर्थः । तेन उत्पत्तिक्षणे घटादौ उत्पन्नविनष्टे च द्रव्ये गन्धासत्त्वेपि नाव्याप्तिः इति ( त० दी ० १ ) । अत्रायं नियम: प्रथमं द्रव्यं निर्गुणमेवोत्पद्यते पश्चात्तत्समवेता गुणा उत्पद्यन्ते इति । उत्पन्नविनष्टे अव्याप्तिकथनं च बौद्धमतमनुसृत्य । तन्मते तदुत्पत्तिक्षण एव तन्नाशस्वीकारात् । नैयायिकास्तु उत्पन्नविनष्टद्रव्यं न स्वीकुर्वन्ति । एतन्मते स्थितिक्षणेपि द्रव्यस्य सत्त्वस्वीकारात् इति । पाषाणादिभस्मनि गन्धोपलम्भेन पाषाणादावपि गन्धोनुमीयते । तत्रत्यगन्धस्यानुत्कटत्वानोपलम्भः इति ज्ञेयम् ( मु० १ पृथि० पृ० ६४ - ६५ ) ( त० व०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org