________________
५०२
न्यायकोशः ।
(श्रुतिः ) इत्यादौ पुण्यम् । २ लग्नावधिकं सप्तमस्थानम् इति मौहूर्तिका - आहुः । ३ मेषकर्कटतुलामकररूपो राशिः इति ज्योतिर्विद आहुः । ४ सत्कर्म पुद्गलाः पुण्यम् (सर्व० सं० पृ० ८७ आर्ह ० ) । पुद्गलः – १ परमाणुः । २ बौद्धास्तु द्व्यणुकादिपदार्थविशेषः इत्याहुः । स्पर्शरसगन्धवर्णवन्तः पुद्गलाः । ते च द्विविधाः । अणवः स्कन्धाश्च ( सर्व० सं० पृ० ७१ आई० ) । अत्रोक्तम् पूरणागलनादेहे पुद्गलाः परमाणवः । इति ( विष्णुपु० ) । ३ सुन्दराकारः इति काव्यज्ञा आहुः ( वाच० ) ।
पुनः - (अव्ययम्) १ द्वितीयवारम् । २ अप्रथमः । ३ भेदः । ४ विशेषः ( गणर० ) ( अमर: ) । ५ अधिकार: । ६ पक्षान्तरम् ( वाच० ) । पुनरुक्तम् — ( निग्रहस्थानम् ) [क] शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् ( गौ० ५/२/१४ ) | अन्यत्रानुवादाच्छब्दपुनरुक्तमर्थ - पुनरुक्तं वा । तेन पुनरुक्तं शब्दपुनरुक्तार्थपुनरुक्तभेदेन द्विविधम् इति बोध्यते । नित्यः शब्दः नित्यः शब्दः इति शब्दपुनरुक्तम् । अर्थपुनरुक्तम् नित्यः शब्दः निरोधधर्मको ध्वानः इति ( वात्स्या ० ५।२।१४ ) । अत्रायमर्थः । पुनर्वचनं पुनरुक्तम् । तस्य विभागार्थं शब्दार्थयोः इति तेन शब्दपुनरुक्तम् अर्थपुनरुक्तं च लभ्यते । अनुवादेतिव्याप्तिवारणाय अन्यत्रानुवादात् इति । अनुवादस्तु व्याख्यारूपः सप्रयोजनक एव इति ( गौ० वृ० ५।२।१४ ) । [ख] अनुवादान्यत्वे सति निष्प्रयोजनं पुनरभिधानम् (गौ० वृ०५।२।१४ ) ( दि० १ ) । [ग] अनुवाद विना कथितस्य पुनः कथनम् ( नील० पृ० ४५ ) । पुमर्थत्वम् — शास्त्रजन्यज्ञानाजन्येच्छाविषयसाधनत्वम् (जै० सू० पृ० अ० ४ पा० १ सू० २ )।
I
पुमान् -१ पुरुषः । अत्र पुंस्त्वस्वरूपं तु यस्याप्सु प्लवते बीजं हादि मूत्रं च फेनिलम् । पुमान् स्याल्लक्षणैरेतैर्विपरीतैस्तु षण्ढकः ॥ इति ( मिता० अ० १ श्लो० ५५ ) । अत्रायं विशेषः । बिन्दुरेको विशेद्गर्भमुभयात्मा क्रमादसौ । रजोधिका भवेन्नारी भवेद्रेतोधिकः पुमान् ॥ उभयोः सम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org