________________
न्यायकोशः ।
५०१
1
I
परमाणुरूपे परमाणवः समवायिकारणम् । तेजः संयोगः असमवायिकारणम् । अदृष्टादिकं निमित्तकारणम् इति । व्यणुकादिरूपे तु कारणरूपमसमवायिकारणम् इति च ज्ञेयम् ( त० दी ० १ पृ० १३ ) । अयमाशयः । अतिवेगवता तेजसा परमाणूनामभिघातसंयोगे सत्यवश्यं तेषु क्रिया जायते । ततो विभागः । तत आरम्भकसंयोगनाशे सत्यवश्यं यावदवयविनाशः । ततः स्वतत्रेषु परमाणुषु रूपान्तरोत्पत्तौ पुनरदृष्टादिघटित सामग्रीवशात्परमाणुषु क्रियाविभागादिक्रमेण यथावस्थितमहावयविपर्यन्तमुत्पत्तिः इति ( नील० १ पृ० १३ ) । अयं भावः । आमनिक्षिप्ते घटे हुताशनसंयोगात्परमाण्वादिकपालपर्यन्तावयवेषु क्रिया । ततः परस्परविभागः । ततः परस्परसंयोगनाशः । ततः असमवायिकारणनाशाद्द्रव्यनाशः इति नियमेन श्यामघटनाशे शिष्टाः परमाणवः पच्यन्ते । तत्र पाकेन रूपादिचतुष्टयोत्पत्तिः । ततः परमेश्वरेण सर्गादाविव व्यणुकादिक्रमेण पूर्ववद्रक्तघटो निर्मीयते । परमाणुरूपेण व्यणुकरूपं जन्यते इत्येवं क्रमः । अन्यथा घटस्य दृढतरत्वे हुताशनप्रवेशासंभवाद्रूपाद्युत्पत्तिर्न स्यात् इति ( सि० च० १ पृ० १६ ) । पुंलिङ्गम् – (नाम ) [क] पुंलिङ्गत्वेन परिभाषितम् । यथा घटोस्तीत्यादौ घटशब्दः पुंलिङ्गः । पुंलिङ्गत्वेन परिभाषायाः प्रयोजनं च पदसंस्कारः । स च तट: इत्यादौ पुंस्त्वेन सुबादिसद्भावः ( श० प्र० श्लो० ५३ टी० पृ० ६८ ) । [ख] कचित् विलक्षणसंस्थानरूपपुंस्त्वविशिष्टवाचकम् । यथा न विप्रध्ययनं त्यजेदित्यादौ । अत्र अलुप्तेन सुपैव ( न तु प्रकृत्या ) उपस्थितं विलक्षणसंस्थानरूपं पुंस्त्वं विप्रेनुभूयते इति ज्ञेयम् (श० प्र० श्लो० ५३ टी० पृ० ६९ ) ।
पुच्छम् - ( नाडिका) मुखे पञ्च गले त्वेका वक्षस्येकादश स्मृताः । नाभौ चतस्रः षट् कट्यां तिस्रः पुच्छाख्यनाडिकाः ॥ ( पु० चि०पू० ३१० ) । पुण्यम् – १ ( गुणः ) धर्मवदस्यार्थोनुसंधेयः । यथा तस्मादात्मकृतं पुण्यं वृथा
न परिकीर्तयेत् इति ( देवलः ) क्षीणे पुण्ये मर्त्यलोकं विशन्ति ( श्रुतिः ) तद्यथेह कर्मचितो लोकः क्षीयते एवममुत्र पुण्यचितो लोकः क्षीयते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org