________________
४९६
न्यायकोशः। तेजसा परमाणूनामभिघातेपि तस्य नियमत आरम्भकसंयोगप्रतिद्वन्द्विविभागजनकक्रियाजनकत्वे मानाभावेन अवयविन्यपि पाकस्वीकार उचितः । अत एव सोयं घटः इति प्रत्यभिज्ञा संगच्छते । अन्त्यावयविनाशाद्यकल्पनेन लाघवं च इति ( नील० १ पृ० १३ )। द्रव्यादेः पाकप्रकारभेदादिकं पाकराजेश्वरे उक्तम् । यथा भर्जनं तलनं स्वेदः पचनं कथनं तथा। तान्दूरं पुटपाकश्च पाकः सप्तविधो मतः ॥ तत्र भर्जनं केवलपात्रे। तलनं स्नेहद्रव्ये । स्वेदनमव्युत्तापे । पचनं जले । कथनं सिद्धद्रव्यरसग्रहणे । तान्दूरं द्वारबद्धतप्तयत्रे । पुटपाक ऊर्ध्वाधोग्नितापे ज्ञेय इति ( वाच० )। [ख] रूपादिपरावृत्तिजनकतेजःसंयोगः । यथा तण्डुलं पचतीत्यादौ पच्यर्थः पाकः । अत्र अवयविन्यपि पाकाङ्गीकर्तृनैयायिकमते तण्डुलं पचतीत्यादौ पचधात्वर्थघटके रूपादिपरावृत्त्यात्मकफले तण्डुलादिवृत्तित्वान्वयः । ओदनं पचतीत्यादौ तु ओदनादिपदस्य तन्निष्पादकतण्डुलादी लक्षणा । अवयविनि पाकानभ्युपगमे वैशेषिकमते तु तण्डुलं पचतीत्यादौ तण्डुलादिपदस्य तदारम्भकपरमाणुषु लक्षणा (ग० व्यु० का० २ पृ० ४३ )। अत्र वैयाकरणमते विशेषः । अनेन विक्लेदनाया उत्पत्त्यनुकूलव्यापारस्य चेति व्यापारद्वयस्य वचनाहिकर्मकत्वम् । तण्डुलानोदनं पचतीत्यस्य तण्डुलान् विक्लेदयन् ओदनं निष्पादयति इत्यर्थः । दुहादित्वेन गौणे कर्मणि लकारे च तण्डुला ओदनं पच्यन्ते इति ( वाच० )। अधिकं तु दोहनशब्दे
द्रष्टव्यम् । [ग] रूपादिपरावृत्तिफलकतेजःसंयोगावच्छिन्नक्रिया । ... यथा तण्डुलं पचतीत्यत्र पचेरर्थः पाकः । अत्र पचधात्वर्थनिविष्टे च
निरुक्ते तेजःसंयोगे तण्डुलस्याधेयत्वेनान्वयः । ओदनं पचतीत्यादौ तु तण्डुलादावोदनादिपदस्य लक्षणा । तत्र क्रियायामन्वितमनुकूलत्वं द्वितीयार्थः इत्यपि कश्चिदाह । परमाणुं पचति इत्यपि प्रयुज्यत एव । अत
एव स्वतत्राः परमाणवः पच्यन्ते इति किरणावल्यामाचार्या आहुः (श० .. प्र० श्लो० ७२ टी० पृ० ९४) । अत्रेदमवधेयम् । चुल्लीस्थाल्यारोपणा
दिकं हि न प्रत्येकं पाकपदार्थः । किं तु स्थाल्यारोपणाग्निनिवेशनतुष
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org