________________
४९५
न्यायकोशः। प्रक्रमेण चावयविनि रूपाद्युत्पद्यते इति पीलुपाकवादिना वैशेषिकाः आहुः । अत्रेदं तत्त्वम् । आमपाके निक्षिप्तस्य घटादेरामद्रव्यस्य वह्निना नोदनादभिघाताद्वा तदारम्भकेषु परमाणुषु द्रव्यारम्भकसंयोगविरोधिविभागेनारम्भकसंयोगनाशे द्रव्यनाशावश्यंभावः । दृश्यते हि स्थाल्यामाहितानां तण्डुलादीनामप्यधःसंतापनमात्रेण भर्जनात्तदानीमेव नाशः । क्षीरनीरादीनां चात्यन्तमुल्बणता । तथा च आमपाके वह्निज्वालाजालाभिहतानां द्रव्याणामवस्थानम् इति महती प्रत्याशा ( वै० उ० ७१।६ ) ( त० कौ० )। पार्थिवपरमाणुरूपादीनां पाकजोत्पत्तिविधानमित्थम् । घटादेरामद्रव्यस्याग्निना संबद्धस्याग्न्यभिघातान्नोदनाद्वा तदारम्भकेष्वणुषु कर्माण्युत्पद्यन्ते । तेभ्यो विभागाः। विभागेभ्यो द्रव्यारम्भकसंयोगविनाशाः । तद्विनाशेभ्यः कार्यद्रव्यं विनश्यति । तस्मिविनष्टे परमाणुष्वग्निसंयोगादौष्ण्यापेक्षाच्छयामादीनां विनाशः। पुनरन्यस्मादग्निसंयोगादौष्ण्यापेक्षात्पाकजाः रूपादयो जायन्ते । तदनन्तरम् भोगिनामदृष्टापेक्षादात्मानुसंयोगादुत्पन्नपाकजेष्वणुषु कौत्पत्तौ तेषां परस्परसंयोगाद्व्यणुकादिक्रमेण कार्यद्रव्यमुत्पद्यते । तत्र च कारणगुणपूर्वक्रमेण रूपाद्युत्पत्तिः । न च कार्यद्रव्ये रूपादिविनाश उत्पत्तिर्वा संभवति । अपि तु परमाणुष्वेव । सर्वावयवेष्वन्तर्बहिश्च वर्तमानस्याग्निना व्याप्त्यभावात् । अनुप्रवेशादपि च व्याप्तिन संभवति । कार्यद्रव्यविनाशात् इति ( प्रशस्त० पृ० १३.) । पाकोपि रूपादेरसमवायिकारणं भवति । तत्र च परमाणावेव पाक्राद्रूपादिपरावृत्तिः नावयविनि इति पीलुपाकवादिन.आहुः । पीलुपाकवादिमते विजातीयाग्निसंयोगादारम्भकसंयोगनाशेन व्यणुकपर्यन्तावयविनाशे सति परमाणौ रक्ताद्युत्पत्तिः । ततो विजातीयाग्निसंयोगादारम्भकसंयोगानुगुणक्रियाद्युत्पत्त्यारम्भकसंयोगादिप्रक्रमेण पुनळणुकादिमहावयविपर्यन्तानामुत्पत्तिर्भवतीति । पिठरपाकवादिमते तु अवयविनां सच्छिद्रतया विजातीयाग्निसंयोगात्तेषामपि रूपादिपरावृत्तिर्भवति । न तु तत्रावयविनां नाशः । प्रत्यभिज्ञाविरोधात् इत्याहुः (वै० वि० ७१।६ पृ० २८७-२८९) ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org