________________
४९४
न्यायकोशः। सहस्राक्ष त्रिवर्षपरमोषितैः ॥ एष धर्मो महाञ्च्छक महागुणफलोदयः इति ( भार० आश्व० अ० ९१ )। अपरं च पिष्टमानीयतामत्र पश्वर्थमिति भाषते । ऋषय ऊचुः । बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः । अजसंज्ञानि बीजानि छागं नो हन्तुमर्हथ । नैष धर्मः सतां देवाः कथं बध्येत वै पशुः इत्यादि ( भार० शान्ति० मोक्षधर्मे० )। अन्यत्र चेदमुक्तम् । इदमन्यत्तु वक्ष्यामि प्रमाणं विधिनिर्मितम् । पुराणमृषिभिर्जुष्टं वेदेषु परिनिष्ठितम् ॥ प्रवृत्तिलक्षणो धर्मः प्रजार्थिभिरुदाहृतः इत्यादिना काम्ये कर्मणि प्रत्यक्षं मांसमुक्त्वा निष्कामकर्मणीदमुच्यते य इच्छेत्पुरुषोत्यन्तमात्मानं निरुपद्रवम्। स वर्जयेत मांसानि प्राणिनामिह सर्वशः । श्रूयते हि पुरा कल्पे नृणां व्रीहिमयः पशुः । येनायजन्त यज्वानः पुण्यश्लोकपरायणाः ॥ ऋषिभिः संशयं पृष्टो वसुश्चेदिपतिः पुरा इत्यादि
( भार० शान्ति० दानधर्मे )। पाकः-१ [क] विजातीयतेजःसंयोगः ( त० भा० ) ( त० दी० )
( न्या० बो०)। रूपादिपरावृत्तिफलको विजातीयतेजःसंयोगः इत्यर्थः (दि० गु. ) (वै० वि० ७१।६ पृ० २८७ ) । यथा आत्मनिक्षिप्ते घटे श्यामरूपादिपरावृत्तिफलकोग्निसंयोगः। अत्रोच्यते । स च संयोगो नानाजातीयः । तथाहि रूपजनको विजातीयतेजःसंयोगः । तदपेक्षया रसजनको विजातीयः । एवं गन्धजनकोपि । एवं स्पर्शजनकोपि तथा । एवंप्रकारेण भिन्नभिन्नजातीयाः पाकाः कार्यवैलक्षण्येन कल्पनीयाः ( न्या० बो० १ पृ० ५)। गदाधरभट्टाचार्याश्चाहुः। रूपरसगन्धस्पर्शानां नाशं प्रति तु एकजातीय एवाग्निसंयोगः कारणम् इति स्पर्शनाकाले रूपनाश आवश्यकः इति (ग० चतुर्द० लक्ष० १ पृ० १२ )। इदं चात्र बोध्यम् । कारणगुणपूर्वकाः पृथिव्यां पाकजाः ( वै० ७।१।६ )। पाक जा इति । रूपरसगन्धस्पर्शा इत्यर्थः । इदानीं प्रसङ्गापाकजप्रक्रिया चिन्त्यते । तत्र कार्यकारणसमुदाय एव पच्यत इति पिठरपाकवादिनो नैयायिकाः आहुः । पीलवः परमाणव एव स्वतत्राः पच्यन्ते । तत्रैव पूर्वरूपनाशाग्रिमरूपाद्युत्पत्तिः। कारणगुण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org