________________
न्यायकोशः।
४९३ सहान्वयस्तदा प्रसज्यप्रतिषेधः । व्यस्तस्य तु नञः क्रिययैवान्वयात्प्रसज्यप्रतिषेध एवेत्याहुः । तदुक्तम् । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन
नन् । प्रतिषेधः स विज्ञेयः क्रियया सह यत्र नञ् ॥ इति ।। पर्षत-चत्वारो ब्राह्मणा वेदशास्त्रधर्मज्ञाः पर्षत् ( मिताक्षरा अ० ११९)। पललम्-तिलपिष्टम् ( पु० चि० पृ० ३०७ )। पशुः-१ [क] पशुत्वसंबन्धी पशुः । सोपि द्विविधः साञ्जनो निरञ्जन
श्चेति । तत्र साञ्जनः शरीरेन्द्रियसंबन्धी । निरञ्जनस्तु तद्रहितः ( सर्व० पृ० १६८ नकु० )। [ख] अनणुक्षेत्रज्ञादिपदवेदनीयो जीवात्मा पशुः ( सर्व० सं० पृ० १८० शैव० )। पाशुपतशास्त्रज्ञास्तु सर्वजीवानां पशुत्वं मन्यन्ते । २ लोमवल्लाङ्गलवान ( श० प्र० श्लो० १०० टी० ) । यथा पशुना रुद्रं यजते इत्यादी मायावादिमते छागादीनां पशुत्वम् । अत्र मध्वाचार्यमतानुयायिनो वैष्णवाः समुत्तिष्ठन्ते । नायं साक्षात्पर्यज्ञादौ विहितः। अपि तु पिष्टात्मकहविर्द्रव्यमेव तत्र विहितम् । पिष्टपशोरेव श्रुतिस्मृतिपुराणादौ निर्वपणप्रतिपादनात् । साक्षात्पश्वालम्भनं तु काम्यमेव । तत्र श्येनादिवन्नरकाद्यनिष्टान्तरस्यापि श्रवणात् इति । अत्र श्रुतिः प्रमाणम् । पुरुषं वै देवाः पशुमालभन्त इत्यादिना पुरुषादिभ्यो मेधोत्क्रमणमुक्त्वा त एत उत्क्रान्तमेधा अमेध्याः पशवस्तस्मादेतेषां नाश्नीयात्तमस्यामन्वगच्छत्सोनुगतो व्रीहिरभवत्तद्यत्पशौ पुरोडाशमनुनिर्वपन्ति समेधेन नः पशुनेष्टमसत्केवलेन नः पशुनेष्टमसदिति समेधेन हास्य पशुनेष्टं भवति केवलेन हास्य पशुनेष्टं भवति य एवं वेद इति (ऋ० ब्राह्म० २ ख० ८ )। तदाहुः यदेष हविरेव यत्पशुः (ऋ० ब्राह्म० २ ख० ११ ) इति च । स्मृतिरपि कुर्याद्धृतपशुं सङ्गे कुर्यापिष्टपशुं तथा । न त्वेव तु वृथा हन्तुं पशुमिच्छेत्कदाचन ॥ इति ( मनु० अ० ५ श्लो० ३७)। महाभारतमपि न हि यज्ञे पशुगणा विधिदृष्टाः पुरंदर । धर्मोपघातकस्त्वेष समारम्भस्तव प्रभो॥ नायं धर्मकृतो यज्ञो न हिंसा धर्म उच्यते । आगमेनैव ते यज्ञं कुर्वन्तु यदि चेच्छसि ॥ विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान् भवेत्। यज बीजैः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org