________________
न्यायकोशः। पर्याप्तिः -(संबन्धः) अयमेको घटः अयमेको घटः इमौ द्वौ इत्यादि
प्रतीतिसाक्षिकः स्वरूपसंबन्धविशेषः । यथा घटपटयो रूपगन्धावित्यादौ द्वित्वपर्याप्तिः (ग० व्यु० का० १) ( दीधि० अवच्छे० निरु० प० १ )। तदर्थश्च अयमेको घटः अयमेको घटः इति नानैकत्वा
वगाहिन्या अपेक्षाबुद्धया जन्यः इमौ द्वौ इत्याकारकप्रतीतिप्रमाणकः : द्वित्वस्वरूपसंबन्धविशेषः । द्वित्व एव पर्याप्तिसंबन्धता स्वीक्रियते इति
(कृष्ण०)। अत्रायमर्थः। द्वित्वत्रित्वादिकं पर्याप्तिसंबन्धेन द्विव्यादिष्वेव - वर्तते न प्रत्येकस्मिन् । समवायेन तु प्रत्येकवृत्ति । प्रत्येकावृत्तेः समु
दायावृत्तित्वम् इति नियमस्तु समवायादिनैव न पर्याप्तिसंबन्धेन इति बोध्यम् । पर्याप्तिसंबन्धश्च विशिष्टबुद्धिनियामकः संबन्धः । समवायेन गुणे गुणस्यासत्त्वेपि चत्वारो गुणाः इति प्रतीत्या गुणादिषु संख्यादिसत्त्वनियामकोपि तादृशः संबन्धः इति जगदीश आह ( वाच०)। पर्याप्तिर्द्विविधा । अर्धपर्याप्तिः पूर्णपर्याप्तिश्च । तत्र प्रथमा यत्राधिकस्य निरासार्थं या पर्याप्तिनिवेश्यते सा अर्धपर्याप्तिः। यथा पर्वतो वह्निमान् धूमादित्यादौ साध्यतावच्छेदकवह्नित्वनिष्ठा पर्याप्तिः । तथाहि । साध्याभाववदवृत्तित्वादिरूपे व्याप्यलक्षणे साध्याभावपदेन साध्यतावच्छेदकपर्याप्तावच्छेदकताकप्रतियोगिताकाभावः पर्वतपक्षकवह्निसाध्यकधूमहेतुकस्थले महानसीयवह्नयभाववारणाय विवक्षणीयः । एवमपि संबन्धादिभेदेनावच्छेदकताभेदान्महानसीयवह्नयभावप्रतियोगितानिरूपितसमवायसंबन्धावच्छिन्नावच्छेदकतापर्याप्तेः साध्यतावच्छेदकवह्नित्वेपि सत्त्वेन तद्वारणासंभवः । अतः साध्यतावच्छेदकपर्याप्तावच्छेदकताकेत्यनेन साध्यतावच्छेदकनिष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपकत्वम् इति विवक्षणीयम् । तेन महानसीयत्वरूपाधिकधर्मव्युदासः इति । द्वितीया तु यत्र च न्यूननिवारणार्थ या पर्याप्तिर्निवेश्यते सा पूर्णपर्याप्तिः । यथा पर्वतो महानसीयवह्निमानित्यादौ साध्यतावच्छेदकीभूतमहानसीयत्वविशिष्टवह्नित्वनिष्ठा पर्याप्तिः । अत्रेदं बोध्यम् । पक्षतावच्छेदकावच्छिन्ने साध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपितप्रकारिताशाल्यनुमितित्वव्याप
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org