________________
न्यायकोशः। परोपकारः-वभिन्नस्य साधुवृत्तस्य हितसंपादनम् । यथा परोपकारः
पुण्याय पापाय परपीडनम् इत्यादौ । यथा वा परोपकाराय सतां विभूतयः इत्यादौ च। पर्यग्निकरणम्-दर्भज्वालया त्रिःप्रदक्षिणीकरणम् ( जै० न्या० अ० ३
पा० ६ अधि० ७)। पर्यनुयोगः-दूषणार्थ जिज्ञासा । यथा एतेनास्यापि पर्यनुयोगस्यानवकाशः
( दायभागः ) इत्यादौ । पर्यनुयोज्यः-निग्रहोपपत्त्या चोदनीयः ( वात्स्या० ५।२।२१)। निग्रह
स्थानं प्राप्तोसि इत्यनुयोज्यः इति यावत् । पर्यनुयोज्योपेक्षणम्—(निग्रहस्थानम् ) [क] निग्रहस्थानप्राप्तस्यानिग्रहः
पर्यनुयोज्योपेक्षणम् (गौ० ५।२।२१)। पर्यनुयोज्यो नाम निग्रहोपपत्त्या चोदनीयस्तस्योपेक्षणम् निग्रहस्थानं प्राप्तोसि इत्यननुयोगः । एतच्च कस्य पराजय इत्यनुयुक्तया परिषदा वचनीयम् । न खलु निग्रहं प्राप्तः स्वकौपीनं विवृणुयादिति ( वात्स्या० ५।२।२१)। [ख] निग्रहस्थानं प्राप्तवतो निग्रहस्थानानुद्भावनम् । अत्रेदं बोध्यम् । यत्र त्वनेकनिग्रहस्थानपात एकतरोद्भावनम् तत्र न पर्यनुयोज्योपेक्षणम् । अवसरे निग्रहस्थानोद्भावनत्वावच्छिन्नाभावस्यैव तत्त्वात् । ननु वादिना कथमिदमुद्भाव्यम् । स्वकौपीनविवरणस्यायुक्तत्वात् इति चेत् सत्यम् । मध्यस्थेनैवेदमुद्भाव्यम् । वादे च स्वयमुद्भावनेप्यदोषः ( गौ० वृ० ५।२।२१)।
[ग] उद्भावनाईपरकीयनिग्रहस्थानानुद्भावनम् ( नील० पृ० ४६ )। पर्यन्तत्वम्-तदवधिकविप्रकर्षशून्यत्वे सति तत्संनिकृष्टत्वम् । यथा नदी
यावन्मम पुरम् इत्यादौ यावदर्थो मर्यादा । अत्र नदीपर्यन्तं मत्पुरम्
इति बोधः ( श० प्र० श्लो० ९३ टी० पृ० ११७ )। पर्यवसितम्-१ पूर्वापरालोचनेनावधारितोर्थः (वाच०)। यथा इति पर्यवसितो वायुः इत्यादौ (मु० १ वायु० पृ० ८५ )। अत्र पर्यवसानं च तत्तदर्थावधारणम् शेषावधिश्च इति ( वाच० )। २ निष्कृष्टार्थः ।
६२ न्या० को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org