________________
४८८
न्यायकोशः। परीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यम् स दृष्टान्तः ( गौ० १।१।२५ ) इत्यादौ गौतमकणादौ मुनी परीक्षकौ । [ख] शास्त्रपरिशीलनप्राप्तबुद्धिप्रकर्षः (प्रतिपादकः ) (गौ० वृ० १।१।२५ )। व्यवहारादौ
दिव्यभेदपरीक्षाकारकः परीक्षकः इति व्यवहारशास्त्रज्ञा आहुः ( वाच०)। परीक्षा-१ [क] लक्षितस्य यथालक्षणमुपपद्यते न वा इति प्रमाणैरव
धारणम् । इयं च शास्त्रस्य प्रवृत्तिः (वात्स्या० १।१।२) (त० को०)। प्रमाणादीनां षोडशानां पदार्थानां तत्त्वज्ञानार्थं परीक्षा कर्तव्या (त० भा० पृ० १)। [ख] यथावल्लक्षितस्यैतल्लक्षणमुपपद्यते न वा । इति विचारः ( त० भा० पृ० १)। [ग] उद्देशलक्षणयोरुपपत्त्यनुपपत्त्यन्यतरफलको विचारः (त० कौ० पृ० २१)। [५] लक्षणस्य सदसद्विचारः (प्र० प्र०)। यथा पृथिव्या गन्धवत्त्वमुपपद्यते न वा
इति विचारः । २ प्रमाणतर्काभ्यां वस्तुतत्त्वावधारणम् । परोक्षत्वम् - १ साक्षात्कारभिन्नज्ञानत्वम् ( चि० १) ( म० प्र० १)
(ग० शक्ति० टी० पृ० ११७)। यथा अनुमित्यादीनां ज्ञानानां परोक्षत्वम् । प्रत्यक्षज्ञानभिन्नज्ञानत्वम् इति तु वयं ब्रूमः । अत्रायं सिद्धान्तः परोक्षज्ञानमनाहार्यमेव निश्चयश्च इति (ग० हेत्वा० सामा०) ( सत्प्र०)। अत्र अक्ष्णः परम् इति व्युत्पत्तिः । परोक्षे लिडिति निपातनात्साधुत्वम् (सि० कौ० पृ० ६९) । २ परोक्षज्ञानविषयत्वम् । यथा पर्वतो वह्निमान् धूमादित्यादौ वह्नः परोक्षत्वम् । ३ वक्तुः साक्षात्काराविषयत्वम् । (ग० व्यु० ल० पृ० १३९)। यथा बभूव योगी किल कार्तवीर्यः ( रघु० स० ६ श्लो० ३८ ) इत्यादौ लिटोर्थः परोक्षत्वम् । वक्तृभिन्नकर्तृकत्वमेव परोक्षत्वम् इति केचिदाहुः (ग० व्यु० ल० पृ० १३९ )। शाब्दिकास्तु साक्षात्करोमि इत्येतादृशविषयताशालिज्ञानाविषयत्वम् इत्याहुः । साक्षात्करोमि इत्येतत्प्रतीतिसाक्षिकलौकिकविषयत्वाभाववत्त्वम् इत्यर्थः । तेन पपाचेत्यादौ प्रत्यक्ष
विषयतासत्त्वेपि तादृशविलक्षणविषयत्वाभाववत्त्वमक्षुण्णम् इति न तदनु- ‘पपत्तिः इति ( वै० सा० द० लका० पृ० १२३-१२४ )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org