________________
न्यायकोशः ।
प्राप्ततया पक्षे अप्राप्त्यभावात् । किंतु लक्षणया पचेतरपचनखानां श्वाविधादीनां भक्षणनिवृत्तिपरम् इति भवति परिसंख्या ( म०प्र० पृ० ६१-६२ ) ( लौ० भा० ४ पृ० ४१ ) । अयं भावः । दोषत्रयवती परिसंख्या भवति । दोषत्रयं च श्रुतहानिः अश्रुतकल्पना प्राप्तबाधश्चेति । श्रुतस्य पञ्चनखभक्षणस्य हानात् अश्रुतायाः पश्वेतरपञ्चनखभक्षणनिवृत्तेः कल्पनात् रागतः प्राप्तस्य पश्चेतरपञ्चनखभक्षणस्य बाधनाच्च ( म०प्र० ४ पृ० ६२ ) ( लौ० भा० पृ० ४१ ) । केचित्तु इतरव्यवच्छेदस्य आर्थत्वशाब्दत्वाभ्यां नियमपरिसंख्ययोर्भेदः । तथाहि । याजनाध्यापनप्रतिग्रहैर्ब्राह्मणो धनमर्जयेदित्यादौ वित्तार्जन उपायत्रयसंबन्धस्य शब्दात्प्रतीतौ कृष्यादीनामनन्वयोर्थात्सिद्धयति । येषामेकान्वये अपरानन्वयः तेषां समुच्चयासंभवात् तत्रेतरोपायव्युदासे शब्दतात्पयं कल्प्यते । परंतु धूमोस्तीति वाक्ये वह्नेरिव तस्यार्थत्वम् । परिसंख्यायां तु भक्षणक्रियायां पचानामप्यन्वय संभवादितरपञ्चनखव्युदासो नार्थः । तत्र पचानामपि समुच्चयसंभवात् । किंतु शाब्दः । एवं च भक्ष्यपञ्चनखपद1 योर्विरोधिलक्षणया पश्चेतरपनखा न भक्ष्याः इति वाक्यार्थः । तथा च उपस्थित पदार्थ परित्यागात् अनुपस्थितपदार्थकल्पनात् अभावविधित्वाच नियमापेक्षया दोषत्रयवती परिसंख्या इत्याहुः (त० प्र० ख० ४ पृ० १०९) । [घ] प्रसञ्जकप्रवृत्तिविरोधिविधिः । यथा इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्ते ( तै० सं० ५।१।२) । तथाहि । इमामित्यादि - मन्त्रस्य रशनामात्रग्रहणप्रकाशकतया अश्वरशनादान इव गर्दभरशनाया आदानेपि मत्रस्य विनियोगो लिङ्गाद्गम्यते । तथा च तदादानकाले पि तन्मन्त्रपाठप्रवृत्त्या तत्रापि तन्मन्त्रसंबन्धः स्यात् । एतस्माच्च विधितः प्रथममश्वरशनाग्रहणे एतन्मन्त्रविनियोगलाभे निराकाङ्क्षतया गर्दभरशनाग्रहणेन तद्विनियोगलाभ इति एतद्विधेर्विधेयस्येतरोद्देश्य संबन्ध प्रसञ्जकप्रवृत्तिविरोधिता इति ( वाच० ) ।
1
1
Jain Education International
४८७
परीक्षकः - [क] नैसर्गिकं वैनयिकं बुद्धधतिशयं प्राप्तः । परीक्षकस्तर्केण प्रमाणैरर्थं परीक्षितुमईतीति ( वात्स्या० १।१।२५ ) । यथा लौकिक
For Personal & Private Use Only
-
www.jainelibrary.org