________________
न्यायकोशः। स्तथा । भक्ष्यान्पश्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः॥ इति मनुवचने (अ.५ श्लो० १८) पश्चनखेष्विति निर्धारणसप्तम्या शल्लकादिपञ्चभिन्नपश्चनखानां भक्षणस्य प्रत्यवायहेतुत्वम् इत्यर्थे क्लृप्तत्वात् इति ( श० प्र० श्लो० १०० टी० पृ० १५९)। एवम् याजनाध्यापनप्रतिग्रहैर्ब्राह्मणो धनमर्जयेदित्यादावपि लिङः परिसंख्यैवार्थः। तेनात्रापि याजनादिभिन्नैाह्मणस्य धनार्जनं प्रत्यवायहेतुः इति वाक्यार्थः । न कृष्याद्यैरनापन्नो ब्राह्मणो धनमर्जयेत् इत्यादिवचनैरुपायान्तरेण विप्राणां धनार्जनस्य प्रत्यवायहेतुत्वस्य स्फुटत्वात् इति बोध्यम् (श० प्र० श्लो० १०० टी० पृ० १५९)। अत्राहुः। याजनाध्यापनप्रतिग्रहैर्ब्राह्मणो धनमर्जयेत् इत्यत्र नियमविधिरेव । तथाहि यत्र क्रियायां विकल्पेन कारकान्वयः स नियमः। यथा धनार्जने याजनप्रतिग्रहाभ्यामेकस्यार्जनस्यासंभवादेकस्यां धनार्जनक्रियायां याजनादीनां मिलितानामन्वयस्यासंभाविततया विकल्पेनैवान्वयः। शशकादिमांसनिर्मितस्यैकस्य पिण्डस्य संभवात् भक्षणक्रियायां मिलितानामन्वयसंभवः इति परिसंख्येति भेदः इति (त० प्र० ४ पृ० १०८ )। शब्दशक्तिप्रकाशिकाकृतस्तु अत्र याजनाद्यैर्ब्राह्मणो धनमर्जयेदेव इति न नियमविधिः । याजनादीना धनानर्जने ब्राह्मणस्य प्रत्यवायाश्रुतेः इत्याहुः (श० प्र० श्लो० १०० टी० पृ० १६०)। [ग] उभयोयुगपत्प्राप्तावितरव्यावृत्तिपरो विधिः । यथा पश्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव। शशकः शल्लकी गोधा खड्गी कूर्मोथ पञ्चमः ॥ (लौ० भा० पृ० ४२) इति । परिसंख्या द्विविधा श्रौती लाक्षणिकी च । तत्राद्या अत्र ह्येवावयन्ति ( श्रुतिः ) इति । तदर्थश्च अत्र प्रकृते अवयन्ति अवजानन्ति गायन्तीति यावत् (लौ० भा० टी० पृ० ४२)। अत्रैवकारेण पवमानातिरिक्तस्तोत्रव्यावृत्तिरभिधीयते इति अस्याः परिसंख्यायाः श्रीतीत्वम् इति विज्ञेयम् (लौ० भा० पृ० ४१)। द्वितीया पञ्च पश्चनखा भक्ष्याः इति ( लौ० भा० पृ० ४१ ) ( म० प्र० ४ पृ० ६२ )। इदं हि वाक्यं पश्चानां पश्चनखानां सेधागोधादीनां च न भक्षणविधायकम् । तस्य रागतः प्राप्तत्वात् । नापि तेषां भक्षणनियमपरम् । तेषां च तदितरपञ्चनखानां च भक्षणस्य युगपदपि रागतः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org