________________
न्यायकोशः।
४८५ परिषत्-जातिविशिष्टपुरुषोपग्रहेण वर्तमाना सभा (न्या० वा० १।१।१४
पृ० ७९) । धर्मज्ञास्तु दशावरा वा परिषद्यं धर्म परिकल्पयेत् । ज्यवरा वापि वृत्तस्था तं धर्म न विचालयेत् ॥ ( मनु० १२।११० )
इत्यादी इत्याहुः । परिसंख्या-(विधिः) [क] सर्वत्र प्राप्तस्य क्वचिद्विधिः । तदुक्तं
भट्टपादैः । तत्र चान्यत्र च प्राप्तौ परिसंख्येति कीर्त्यते इति (न्या० म० ४ पृ० २८ )। तदर्थश्च यत्रोद्देश्ये यस्य विधानम् तदन्यस्मिन्नपि तत्संबन्धस्य तस्मिन्वा तदन्यसंबन्धस्य प्रवृत्तितः प्रसक्तौ इति । यथा पश्च पश्चनखा भक्ष्याः इति । अत्र सर्वेषां पञ्चनखानां भक्षणे प्राप्ते पश्चैव पञ्चनखा भक्ष्याः न त्वन्ये इति विधीयते (नियम्यते) ( त० प्र० ४ पृ०. १०८ ) ( सि० च० पृ० ३३ )। पञ्चपञ्चनखातिरिक्ताभक्षणं विधीयते इति तात्पर्यम् । पञ्चनखास्तु शशकः शल्लकी गोधा खड्गी कूर्मश्च पञ्चमः इति ( सि० च० पृ० ३३ ) (त० प्र० ४ पृ० १०८)। केचिदत्रैवमाहुः । ऋतौ भार्यामुपेयादित्यत्रापि परिसंख्यैव । तत्र ऋतुकाल एव भार्यागमनं विधीयते । ऋत्वतिरिक्तकाले भार्यागमनस्य निषेधात् इति । वस्तुतस्तु तत्र ऋतुकाले भार्यागमनं कर्तव्यमेव इति बोधान्नियमविधिरेव इति । अत्रायं भावः । ऋतावुपेयात्स्वां भार्यामन्यथा भ्रूणहा भवेत् इयादिनिन्दार्थवादबलात् ऋतौ स्वदारगमनाद्यभावस्य दुरितहेतुत्वव्यवस्थित्यैव तद्विधेर्नियमपरत्वं कल्प्यते इति ( श० प्र० श्लो० १०० टी० पृ० १५९)। [ख] अन्ययोगव्यवच्छेदः । यथा पञ्च पञ्चनखान भुञ्जीतेत्यादौ लिङा परिसंख्या बोध्यते । अत्रत्यलिङा प्रत्यवायहेतुत्वं प्रत्याय्यते । प्राथमिकपञ्चपदेन लक्षणया शशादिपञ्चभिन्नोर्थो बोध्यते । सा परिसंख्या च पञ्चैव पश्चनखान भुञ्जीत इत्याकारैव । तेन शशादिपञ्चभिन्नानां पश्चनखानां भोजनं प्रत्यवायहेतुः इत्येव तत्र वाक्यार्थः । अत्र शशादिपञ्चविधान पञ्चनखानेव भुञ्जीत इत्याकारा परिसंख्या न भवति पश्चनखभिन्नस्यौदनादेर्भोजनस्य निषिद्धत्वे प्रमाणाभावात् इति । अत्रायं भावः । श्वाविधं शल्यकं गोधां खड्गकूर्मशशां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org