________________
४८४
न्यायकोशः। ( काव्यप्र० उल्ला० ७ ) । अत्र गीः वाण एते उभे अपि पदे वचो - बाण इति परावर्तनं न क्षमेते इति तस्य तथात्वम् । अत्र गी:पदस्थाने
वच इति पदस्य वाणपदस्थाने च बवयोरभेदात् बाणपदस्य प्रक्षेपे गीर्वाणपदादेवतार्थस्येव वचोबाणपदात्तादृशार्थाप्रतीतेः । प्रत्युत वाक्शर
रूपार्थप्रतीतेश्च इति। परिवेत्ता- (परिवित्तिशब्दे दृश्यम् )। परिशेषः- [क] प्रसक्तस्य प्रतिषेधेन्यत्राप्रसङ्गात्परिशिष्यमाणे संप्रत्ययः
(सि० च० १ पृ० ९)। यथा परिशेषानुमानमित्यादौ । तथाहि । शब्दोष्टद्रव्यातिरिक्तद्रव्याश्रितः अष्टद्रव्यानाश्रितत्वे सति समवायिकारणकत्वात् यन्नैवम् तन्नैवम् यथा रूपम् इति परिशेषानुमानम् (सि० . च० १ पृ० ९)। अत्र परिशेषपदार्थस्य समन्वयमित्थं वर्णयन्ति । प्रसक्तस्य अष्टद्रव्याश्रितत्वस्य प्रतिषेधे अभावे अन्यत्र द्रव्यादन्यत्र रूपादौ अप्रसङ्गात् प्राप्त्यभावात् परिशिष्यमाणे आकाशे संप्रत्ययः शब्दस्य संबन्धः इति । [ख ] प्रसक्तप्रतिषेधे परिशिष्यमाणे बुद्धिः। स द्विविधः विधिमुखः निषेधमुखश्च । तत्राद्यो यथा चैत्रमैत्रयोरयं चैत्रः इत्युक्त अन्यस्मिन्मैत्रप्रमा। द्वितीयो यथा नायं चैत्रः इत्युक्त तस्मिन्मैत्रप्रमा। इयमनुमानजन्या। अत्र प्रयोगः विमतो मैत्रः चैत्रमैत्रयोरन्यतरत्वे सति अचैत्रत्वात् व्यतिरेकेण चैत्रवत् इति (प्र० च०
परि० १ पृ० ४४ )। परिशेषानुमानम्-[क] तदितरविशेषाभाववत्त्वे सति सामान्यत्वरूपो हेतुः ( राम० १ मङ्गल० पृ० ५)। [ख] विशेषाभावसहकृतसामान्यहेतुकानुमानम् । यथा अविगीतशिष्टाचारविषयत्वेन मङ्गलस्य सफलत्वे सिद्धे मङ्गलं समाप्तिफलकं समात्यन्याफलकत्वे सति सफलत्वात् इत्यनुमानम् ( राम० ) (दि. १ मङ्गल० पृ० ४) । अत्र लक्षण
समन्वयः क्रियते । तस्मात् समाप्तिरूपात्फलात् इतरो विशेषः स्वर्गादि. रूपं फलम् तस्याभाववत्त्वे जनकतासंबन्धेन स्वर्गादिफलस्याभाववत्त्वे
सति सामान्यवत्त्वम् फलवत्त्वम् इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org