________________
४८२
न्यायकोशः। तैरारब्धे कार्यद्रव्ये व्यणुकादिलक्षणे रूपाद्युत्पत्तिसमकालं महत्त्वं दीर्घत्वं च करोति । बहुभिर्महद्भिरारब्धे कार्यद्रव्ये कारणमहत्त्वान्येव महत्त्वमारभन्ते न बहुत्वम् । समानसंख्यैरारब्धेतिशयदर्शनात् । प्रचयस्तु तूलपिण्डयोर्वर्तमानः पिण्डारम्भकप्रशिथिलसंयोगापेक्ष इतरेतरपिण्डा. वयवसंयोगापेक्षो वा द्वितूलके महत्त्वमारभते न बहुत्वमहत्त्वानि । समानसंख्यापरिमाणैरारब्धेतिशयदर्शनात् । द्वित्वसंख्या चाण्वोर्वर्तमाना ब्यणुके अणुत्वमारभते । महत्त्ववत् व्यणुकादो कारणबहुत्वमहत्त्वसमानजातीयप्रचयेभ्यो दीर्घस्योत्पत्तिः। अणुत्ववत् व्यणुके द्वित्वसंख्यातो ह्रखत्वस्योत्पत्तिः । एतच्चतुर्विधमपि परिमाणमुत्पद्य स्वाधारविनाशादेव विनश्यति इति ( प्रशस्त० पृ० १६)। उपस्कारेप्युक्तम् । परिमाणं चतुर्विधम् । महत्त्वम् अणुत्वम् दीर्घत्वम् ह्रस्वत्वं च । तत्र परममहत्त्वपरमदीर्घत्वे विभुचतुष्टयवर्तिनी। परमाणुत्वपरमहस्वत्वे परमाणुवर्तिनी। अवान्तराणुत्वावान्तरहस्वत्वे व्यणुकवर्तिनी त्रसरेणुमारभ्य महावयविपर्यन्तमवान्तरमहत्त्वावान्तरदीर्घत्वे । एवं च सर्वाण्यपि द्रव्याणि परिमाणद्वयवन्ति । बिल्वामलकादावणुत्वव्यवहारः समिदिक्षुदण्डादिषु च ह्रस्वत्वव्यवहारो भाक्तः । भक्तिश्चात्र प्रकर्षभावाभावः। आमलके यः प्रकर्षभावस्तस्याभावः कुवले। बिल्वे यः प्रकर्षभावस्तस्याभाव आमलके।
स च गौणमुख्योभयभागित्वात् भक्तिपदवाच्यः । अत्र दीर्घत्वहस्वत्वे . नित्ये न वर्तेते इत्येके । परिमाणे एव ते न भवतः इत्यपरे । किंतु
अणुत्वमहत्त्वे द्वे एव परिमाणे न तु चतुर्धा इति सांख्या वेदान्तिनश्वाहुः ( वै० उ० ७११८ )। इदानीं परिमाणकारणानि परिसंचष्टे कारणबहुत्वाच्च ( वै० ७१।९) । तत्र कारणबहुत्वं केवलं त्र्यणुके महत्त्वदीर्घत्वे जनयति । महत्त्वप्रचययोस्तत्कारणे अभावात् । अत्रेदं ज्ञेयम् । तच्च बहुत्वं ईश्वरापेक्षाबुद्धिजन्यम् । तद्बुद्धेरनेकविषयत्वेप्यदृष्टविशेषोपग्रहो नियामकः इति ( वै० उ० ७।१।९ )। एवम् परमाणु
द्वयगतं द्वित्वं ब्यणुके परिमाणोत्पादकम् । द्वाभ्यां तन्तुभ्यामप्रचिताभ्या- मारब्धे पटे केवलं महत्त्वमेवासमवायिकारणम् । बहुत्वप्रचययोस्तत्रा. भावात् । यत्र च द्वाभ्यां तूलकपिण्डाभ्यां तूलकपिण्डान्तरारम्भस्तत्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org