________________
न्यायकोशः। (वाच०)। मनुयाज्ञवल्क्यादयस्तु प्रकारान्तरेण परिमाणगणनं चक्रिरे । तत्राङ्गुलादिपरिमाणमेव वैशेषिकमते गुणविशेषत्वेन चतुर्विधत्वेन च प्रतिपादितम् न तु गुञ्जादिपरिमाणम् इति तारानाथतर्कवाचस्पतिराह । परिमाणं द्विविधम् । महत्त्वम् अणुत्वं च ( त० व० )। प्रकारान्तरेण तच्चतुर्विधम् । अणु महत् दीर्घम् ह्रस्वं च ( प्रशस्त० ) ( त० सं० ) (मु० गु० )। तत्र अणुह्रस्वपरिमाणे परमाणुढ्यणुकयोः। महद्दीर्घपरिमाणे व्यणुकचतुरणुकादौ (प्र० प्र०)। चतुर्विधमपि प्रत्येकं द्विविधम् परमं मध्यमं चेति । तत्र परमाणुत्वपरमहस्वत्वे परमाणुमनसोस्तिष्ठतः । मध्यमाणुत्वमध्यमह्रस्वत्वे ब्यणुके तिष्ठतः। परममहत्त्वपरमदीर्घत्वे गगनादौ तिष्ठतः । मध्यममहत्त्वमध्यमदीर्घत्वे घटादौ तिष्ठतः इति (सि० च०१ पृ० १७ )। पुनश्च चतुर्विधमपि परिमाणं द्विविधम् । नित्यम् अनित्यं च । तत्र नित्यगतं नित्यम् । अनियगतमनित्यम् । तच्च अनित्यम् आश्रयनाशान्नश्यति ( वै० ७१।१८-१९ ) ( प्रशस्त० )। अनित्यं त्रिविधम् । संख्याजन्यम् परिमाणजन्यम् प्रचयजन्यं च । तत्राद्यम् परमाणुद्वित्वजन्यं व्यणुके । ब्यणुकबहुत्वजन्यं च व्यणुके। द्वितीयम् कपालपरिमाणजन्यं घटपरिमाणम् । तृतीयम् तूलावयवसंयोगजन्यं तूलपिण्डपरिमाणम् (वै० ७११८-२५) ( भा० प० श्लो० ११०-११४ ) ( प्रशस्त० ) (सि० च० १ पृ० २१ ) ( त० कौ० )। अयं तूलावयवसंयोगश्च शिथिल इत्युच्यते ( भा० ५० श्लो० ११३ ) । अत्रायं संग्रहः। परिमाणं चतुर्विधम् । अणु महत् दीर्घम् ह्रस्वं च । तत्र महत् द्विविधम् । नित्यम् अनित्यं च ।
नित्यम् • आकाशकालदिगात्मसु परममहत्त्वम् । अनित्यम् व्यणुका.. दावेव । तथा अण्वपि द्विविधम् । नित्यम् अनित्यं च। परमाणुमनःसु - पारिमाण्डल्यं नित्यम् । अनित्यं व्यणुक एव । कुवलामलकबिल्वादिषु
महत्स्वपि तत्प्रकर्षभावाभावमपेक्ष्य भाक्तोणुव्यवहारः। दीर्घत्वह्रस्वत्वे तूत्पाद्यमहत्त्वाणुत्वैकार्थसमवेते । समिदिक्षुवंशादिस्वञ्जसा दीर्घष्वपि
तत्प्रकर्षभावमपेक्ष्य भाक्तो ह्रस्वव्यवहारः। अनित्यं चतुर्विधमपि संख्या.. परिमाणप्रचययोनि । तत्रेश्वरबुद्धिमपेक्ष्योत्पन्ना व्यणुकेषु बहुत्वसंख्या
६१ न्या० को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org