________________
न्यायकोशः ।
કર
1
त्पत्तिरिति ( वात्स्या० ३ | २ | १६ ) | परिणाम स्त्रिविधः प्रसिद्धः । धर्मलक्षणावस्थाभेदात् ( सर्व० सं० पृ० ३५३ पात० ) । अथवा सतो द्रव्यस्य पूर्वगुणनिवृत्तौ गुणान्तरोत्पत्तिः ( प्रादुर्भावः ) । यथा पयसः परिणामो दधि इति ( गौ० वृ० ३।२।१६ ) ( वात्स्या ० ३ |२| १६ ) । विद्यमानस्य क्षीरस्य पूर्वरसतिरोभावोम्लरसात्मकगुणान्तरस्याविर्भावात् इति ( गौ० वृ० ३।२।१६ ) । नैयायिकास्तु अत्र परिणामो विनाश एव इत्याहु: । यद्वा प्रकृतेरन्यथाभावो विकारः । अत्र अन्यथाभावश्च प्रकृत्युच्छेदेन प्रकृतेर्गुणान्तराधानेन वा । यथा मृदादेर्घटादिरूपेण काष्ठादेभस्मादिना ( वा० ) । यथा परिणामतापसंस्कारदुःखै: ० ( पात० पाद० २ सू० १५ ) परिणामतः सलिलवत् (सां० का ० १६ ) इत्यादौ इत्याहुः । यथा हि वारिदविमुक्तमुदकमेकरसमपि तत्तद्भूमिविकारानासाद्य नारिकेलताली बिल्वचिरबिल्व तिन्दुकामलककपित्थफलरसतया परिणामात् मधुराम्लतिक्तकटुकषायतया विकल्पते एवम् एकैकगुणसमुद्भवात् प्रधानं गुणमाश्रित्याप्रधानगुणाः परिणामभेदान् प्रवर्तयन्ति ( सांख्य० कौ० श्लो० १६ ) । मायावादिनो वेदान्तिनस्तु पूर्वरूपपरित्यागे सति नानाकारप्रतिभासः । यथा क्षीरस्य दधिप्रतिभासः इत्याहुः । मायावादिमतेत्रायं विवेको ज्ञेयः । परिणामो नाम उपादानसमसत्ताककार्यापत्तिः । विवर्तो नाम उपादानविषमसत्ताककार्यापत्तिः इति ( वेदा० प० परि० १ पृ० २२ ) । ३ शेषः ( अन्त्यावस्था ) । यथा परिणामेमृतोपमम् ( गीता० अ० १८ श्लो० ३७ ) इत्यादौ । ४ अर्थालंकार विशेषः इत्यालंकारिका आहुः ।
-
परिनिष्ठा – १ अनन्यवृत्तित्वम् । २ पर्यवसानम् ( सांख्य० भाष्य ० १।६८ ) । यथा पारंपर्येप्येकत्र परिनिष्ठा ० ( सां० सू० अ० १ सू० ६८ ) इत्यादौ ।
परिनिष्ठितत्वम् — अप्रवृत्तनित्य विध्युद्देश्य तावच्छेदकानाक्रान्तत्वम् । निहते तिङन्तादावव्याप्तिवारणाया प्रवृत्तेति । बैकल्पिकेडागमोद्देश्यतावच्छेदकाक्रान्ते सेद्धेत्यादावव्याप्तिवारणाय नित्येति ( शब्दे० शे० पृ० ६९ ) ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org