________________
४७८
न्यायकोशः। ६ पूजनम् । यथा परिचरति इति । ७ वर्जनम् । यथा परि त्रिगर्तात् इति । ८ मर्यादा । यथा परिच्छिद्यते वासः इति । ९ आच्छादनम् । यथा परिदेवनम् इत्यादौ (गण० टी० )। १० व्याधिः । ११ शेषः । १२ उपरमः । १३ संतोषः । १४ संतोषभाषणम् इत्यादि ( वाच०)। अस्य परि इत्यव्ययस्यार्थविशेषेणोपसर्गत्वं कर्मप्रवचनीयत्वं च यथायथं
ज्ञेयम् । अस्यार्थविशेषद्योतकत्वमेव न तु वाचकत्वमित्यपि विज्ञेयम् । परिचयः-१ ज्ञातस्य पौनःपुन्येन ज्ञानम् ( वाच०) । २ सर्वतश्चयनम्
इति काव्यज्ञा आहुः ( माघ० २७५)।. परिचायकम्-१ तदघटकत्वे सत्यर्थविशेषज्ञापकम् । यथा शब्दगुणकत्व
रूपाकाशलक्षणे गुणः परिचायकः । यथा वा तत्तद्धर्मावच्छिन्ननिरूपितविषयितान्यतमविषयितानिरूपकतावच्छेदकधर्मवत्त्वरूपे हेत्वाभासलक्षणे तत्तद्धर्मावच्छिन्ननिरूपितत्वं विषयितानां परिचायकम् । (ग० हेत्वा०
सामान्यनि० पृ० ३१ )। २ उपलक्षणम् इति केचिद्वदन्ति । परिच्छित्तिः–अनुभवः ( कु० टी० ४।५.)। परिच्छेदः-१ ज्ञानम् ( चि० २)। यथा वाक्यार्थसामानाधिकरण्येन संज्ञानिमित्तपरिच्छेदः इत्यादौ । २ अवधारणम् । ३ अवधिः । ४ सीमा। ५ परिमाणम् । ६ ग्रन्थस्य संधिविशेषः । अत्रोच्यते । सर्गवर्गपरिच्छेदोद्धाताध्यायाङ्कसंग्रहाः । उच्छासः परिवर्तश्च पटलं काण्डमस्त्रियाम् ॥ स्थानं प्रकरणं पर्वाह्निकं च ग्रन्थसंधयः इति (त्रिकाण्ड०)। एवमन्येपि पाद-लम्बुक-तरङ्ग-स्तबक-प्रपाठक-इत्यादयोपि यथायथं ग्रन्थसंधय उह्याः । तत्र काव्ये सर्गः । कोशे वर्गः । अलंकारे परिच्छेदोच्छ्रासौ । कथायामुद्धातः । संहितापुराणादावध्यायः। नाटकेङ्कः । तत्रे पटलम् । ब्राह्मणे काण्डम् । इतिहासे पर्व । भाष्ये आह्निकम् ।
इति ( वाच० )। परिणामः-१ जीर्णता ( पाकः ) ( सि० च०) (नील०)। यथा
भुक्तस्य परिणामहेतुरौदर्यम् तेजः ( त० सं० ) इत्यादौ । २ सांख्याः . पातञ्जलाश्च परिणामो नाम अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्ती धर्मान्तरो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org