________________
४७५
न्यायकोशः। अत्रेदमवधेयम् । वह्निव्याप्यधूमवान् पर्वतः इति शाब्दपरामर्शानुरोधेन व्याप्तिविशिष्टवैशिष्ट्यावगाहिज्ञानत्वेनैव ( व्याप्तिप्रकारकपक्षधर्मताज्ञानस्वेन ) परामर्शस्यानुमितिकारणत्वमङ्गीकार्यम् । न तु मीमांसकमतमनुरुध्य व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वेन कारणत्वं स्वीकार्यम् इति (चि० २ पृ० ३४ ) (मु० २ पृ० १३७–१३८ ) ( न्या० सि० दी० पृ० ४८)। अत्रेदमधिकं बोध्यम् । परामर्श एवानुमितौ कारणम्। न तु परामृश्यमानं लिङ्गम् । अतीतानागतधूमादिज्ञानेप्यनुमितिदर्शनात् । तदानीं लिङ्गाभावादनुमित्यनुपपत्तिः इति ( चि० २ पृ० ४३-४४ ) (मु० २ पृ० १३५-१३६)। [ख] व्याप्तिविशिष्टपक्षधर्मताज्ञानम् । यथा पर्वते धूमेन वह्निसाधने वह्निव्याप्यधूमवानयं पर्वतः इति ज्ञानम् । (त० सं० )। अत्र विग्रहः । व्याप्तिविशिष्टं ( व्याप्तिप्रकारकम् ) यत् पक्षधर्मताज्ञानम् इति । तावत्पदार्थानां तथाविधपरस्परोपश्लेषावगाहित्वमानं विवक्षितम् ( दीधि० २ पृ० ५) (न्या० बो० २ पृ० १३) (त० दी० २ पृ० २० )। केचित्तु व्याप्तिविशिष्टं च पक्षधर्मश्चेति द्वन्द्वाश्रयणाद्व्याप्तिविशिष्टत्वपक्षधर्मत्वावगाहिज्ञानत्वं लभ्यते । पदार्थयोरभेदेपि पदार्थतावच्छेदकभेदेनैव प्रमाणप्रमेयेत्यादिसूत्रेन्यत्र च द्वन्द्वदर्शनात् । विशिष्टपदस्य धर्मपरतया वा व्याप्तिवैशिष्टयपक्षधर्मतयोर्लाभात् इत्याहुः ( दीधि० २ पृ० ४)। कर्मधारयश्च व्याप्तिविशिष्टं च तत् पक्षधर्मताज्ञानं च इति । अत्र विशिष्टपदस्य प्रकारतानिरूपकपरत्वात् पक्षधर्मताया ज्ञानम् इत्यत्र षष्ठया विषयत्वबोधनात् पक्षधर्मतापदस्य संबन्धार्थकत्वात् कर्मधारयसमासेन समस्यमानपदार्थयोरभेदसंसर्गलाभाच्च व्याप्तिप्रकारकाभिन्नं यत् पक्षसंबन्धविषयकज्ञानम् तत् परामर्शः इति लभ्यते (न्या० बो० २ पृ० १३)। अन्ये तु वैशिष्ट्यं विषयता। पक्षधर्मः पक्षसंबन्धी । तस्य भावः पक्षधर्मता । पक्षसंबन्ध इति यावत् । तस्या ज्ञानम् । व्याप्तिविशिष्टं च तत् पक्षधर्मताज्ञानं चेति कर्मधारयः। पक्षधर्मताविषयिताविशिष्टे व्याप्तिविषयिताभाने तन्निरूपितविषयतयोरपि परंपरया निरूप्यनिरूपकभावः संबन्धो भासत इति व्याप्तिविषयता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org