________________
४७६ .
न्यायकोशः।
निरूपितसंबन्धविषयतानिरूपितपक्षतावच्छेदकावच्छिन्नविषयतानिरूपकज्ञानं लभ्यते । ज्ञानपदं निश्चयपरम् । व्याप्तिविषयतानिरूपितविषयता च व्याप्तिघटकपदार्थविषयतानिरूपिता बोध्या। तेन भ्रमप्रमासाधारण्यनिर्वाहः इति ( वाक्य० २ पृ० १३ ) इत्याहुः । अत्र व्याप्तिविशिष्टे पक्षधर्मता व्याप्तिविशिष्टपक्षधर्मता तज्ज्ञानम् इति सप्तमीतत्पुरुषाङ्गीकारे व्यभिचारिलिङ्गकानुमितौ धूमवान्वढेरित्यादौ व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यत्वाभावेनाव्याप्तिः । अतः व्याप्तिविशिष्टपदस्य व्याप्तिविषयकेत्यर्थमवलम्ब्य ज्ञानान्तपदेन कर्मधारयोङ्गीकार्यः ( नील० २ पृ० २०) (दीधि० २ पृ० ४ )। अत्रेदं बोध्यम् । अनुमितौ व्याप्तिज्ञानं करणम् । परामर्शो व्यापारः । तथाहि । येन पुरुषेण महानसादौ धूमे वह्नाप्ति- . र्गृहीता पश्चात् स एव पुरुषः कचित्पर्वतादावविच्छिन्नमूलामभ्रंलिहां धूमलेखां पश्यति । तदनन्तरं धूमो वह्निव्याप्यः इत्येवंरूपं व्याप्तिस्मरणं तस्य भवति । तस्माच्च वह्निव्याप्यधूमवानयम् इति ज्ञानं भवति । स एव परामर्शः इत्युच्यते । तदनन्तरम् पर्वतोयं वह्निमान् इति ज्ञानं जायते। तदेवानुमितिः इति (मु० २ पृ० १३५ ) (त० भा० प्रमाण० पृ० ११ )। परामर्शो द्विविधः पक्षे व्याप्यः इति पक्षप्रकारको व्याप्यविशेष्यकः पक्षो व्याप्यवान् इति पक्षविशेष्यको व्याप्यप्रकारकश्च । तत्राद्यो यथा पर्वते वह्निव्याप्यो धूमः इति ज्ञानम् । द्वितीयो यथा वह्निव्याप्यधूमवान् पर्वतः इति ज्ञानम् । अत्रेदं बोध्यम् । पले व्याप्यः इति परामर्शात् पक्षे साध्यम् इत्याकारिकानुमितिरुत्पद्यते । पक्षो व्याप्यवान् इत्याकारकपरामर्शात्तु पक्षः साध्यवान् इत्याकारिकानुमितिरुत्पद्यते इति प्राञ्चो नैयायिका आहुः । नव्यनैयायिकास्तु द्विविधादपि परामर्शात् पक्षः साध्यवान इत्याकारिका पक्षमुख्यविशेष्यिकैवानुमितिरुत्पद्यते इति प्राहुः (मु० २ पृ० १३६ ) । २ विवेचनम् । तच्च युक्त्या श्रुतार्थावधारणम् इति केचिदाहुः । ३ गुरुवाक्यतात्पर्यनिर्णायको विचारः ( सां० प्र० भा० ४।१७ ) । यथा नोपदेशश्रवणेपि कृतकृत्यता परामर्शादृते विरोचनवत् (सां० सू० अ० ४ सू० १७) इत्यादौ इति सांख्या आहुः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org