________________
४७४
न्यायकोशः। माश्रयत्वलक्षणं बोध्यते न तु पुत्रीयते इत्यादौ । इच्छार्थस्य क्यचो निवेशादिति ज्ञेयम् ( श० प्र० श्लो० ९८ टी० )। अत्र विशेषस्तु
आत्मनेपदव्याख्यानावसर उक्तः इति नात्र कथ्यते । पराजयः-१ युद्धनिवृत्तिः । यथा रणात् पराजयते इत्यत्र धात्वर्थः । अत्र ।
पञ्चम्यर्थो द्वेषः । तथा च रणगोचरद्वेषजन्ययुद्धनिवृत्तिमान् इत्येवं तत्र बोधः । कृत्यसाध्यत्वधीप्रयुक्तप्रवृत्त्यभाववत्त्वम् इति केचिद्वदन्ति। अत्रार्थे रणात्पराजयत इत्यत्र पञ्चम्यर्थो विशेष्यत्वम् । तच्च धात्वर्थैकदेशे बुद्धावन्वेति । तथा च रणधर्मिकस्वकृत्यसाध्यत्वधीप्रयुक्तप्रवृत्त्यभाववान् इत्याकारको बोधः इति । अत्रेदं बोध्यम् । शत्रु पराजयते इत्यादी त्वभिभवहेतुव्यापारः पराजेरर्थः इति धात्वर्थतावच्छेदकफलशालितया शत्रुप्रभृतेः कर्मत्वमेवेति (श० प्र० श्लो० ६८ टी० पृ० ८१)। २ असहिष्णुता । यथा कृष्णात्पराजयते शिशुपालः अध्ययनात्पराजयते बाल: इत्यादौ पराजेरर्थः । असहिष्णुता च द्वेषविशेषः । अभिभवाशक्यत्वज्ञानं वा। अत्र पञ्चम्याः कर्मत्वमर्थः । श्रीकृष्णम् अध्ययनम् न सहते इति विवरणात् । आख्यातस्याश्रयत्वमर्थः । तथा च कृष्णात्पराजयते शिशुपाल इत्यादौ श्रीकृष्णविषयकाभिभवाशक्यत्वज्ञानवाञ् शिशुपालः इति अध्ययनात्पराजयते बाल इत्यादौ तु अध्ययनविषयकाभिभवाशक्यत्वज्ञान
वान्बालः इति क्रमेण बोधः ( का० व्या० पृ० १०)। पराप्रकृतिः-विकारापगमे सत्यं सुवर्ग कुण्डले यथा । विकारापगमो यत्र
तामाहुः प्रकृतिं पराम् ॥ ( सर्व० सं० पृ० ३०९ सांख्य० )। परामर्शः-१ [क] व्याप्यस्य पक्षवृत्तित्वधीः ( भा०प० २ श्लो०६९)।
व्याप्तिविशिष्टस्य हेतोः पक्षेण सह वैशिष्ट्यावगाहिज्ञानमित्यर्थः (मु० २ पृ० १३६ ) । अयं च परामर्शः अनुमितिकारणम् तृतीयं लिङ्गज्ञानमित्युच्यते । अत्रायं कार्यकारणभावः। तद्वत्ताज्ञानं प्रति तद्व्याप्य
वत्ताज्ञानं कारणम् । तद्धर्मावच्छिन्नविधेयकानुमितौ तद्धर्मावच्छिन्न. व्याप्यवत्ताज्ञानं कारणम् इति यावत् (न्या० म० ४ पृ० ३३ )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org