________________
४७३
न्यायकोशः। कृष्णः इति वल्लभीयाः । परमेश्वरः इति पातञ्जलाः । बुद्धः सर्वज्ञो वा इति बौद्धाः । अर्हन्नित्याहताः । पराख्यः शब्द एव इति शाब्दिकाः । कालः एव इति ज्योतिषज्ञाः । लोकव्यवहारसिद्ध एव परमात्मा इति चार्वाकाः । विश्वकर्मा इति कारव उपासते। तत्र नित्येश्वरं न मन्यन्ते सांख्या आर्हताश्चार्वाकाश्च (कु० टी० १।२ ) । न्यायनये परमात्मन्यष्टौ गुणा वर्तन्ते । एकत्वसंख्या परममहत्परिमाणम् एकपृथक्त्वम् संयोगः विभागः बुद्धिः इच्छा प्रयत्नश्चेति ( भा० ५० श्लो० ३४ )। अपरिमिता अप्राकृता ज्ञानानन्दादयो गुणाः परमात्मनि सन्ति इति माध्वा जगुः । परमात्मा गुणशून्य एव इति मायावादिनो मन्यन्ते। परमापूर्वम्- (अपूर्वम् ) [क] यत्र स्वर्गादिफलं प्रति दर्शपूर्णमासादि
जन्यत्वेन जनकत्वम् तत्परमापूर्वम् । यथा दर्शपूर्णमासाभ्यां यजेत स्वर्गकामः इत्यादौ प्रधानविधिबोधितं दर्शपूर्णमासात्मकयागद्वयजन्यपूर्वम् ( दि० गु० पृ० २३५) ( चि० ४) (मू० म०)। [ख] कलिकापूर्वजन्यः स्वर्गादिफलसाधनमपूर्वविशेषः । अत्र परमापूर्व वाच्यम् कलिकापूर्वाणि तु कल्प्यानि इति मीमांसकानां सिद्धान्तः ( त० प्र०
ख० ४ पृ० ११४ )। कलिकापूर्व प्रदर्शितं प्राक् ( पृ० २१७ )। परमेश्वरः-क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषः स्वेच्छया निर्माणकायमधिष्ठाय लौकिकवैदिकसंप्रदायप्रवर्तकः संसाराङ्गारे तप्यमानानां प्राण
भृतामनुग्राहकश्च ( सर्व० सं० पृ० ३३३ पातञ्ज० )। परस्परम्-अन्योन्यशब्दवदस्यार्थीनुसंधेयः ( ल० म०)। परस्मैपदम्- (तिङ् ) [क] लः परस्मैपदम् (पा० १।४।९९) । अत्र
व्युत्पत्तिः । परस्मै. परोद्देशार्थफलकं पदम् इति ( अलुक्समासः) ( वाच० )। परस्मैपदं च तिप् तस् झि इत्यादि नवविधम् । [ख] क्यजन्तधातोरर्थस्य स्वार्थे कर्तृत्वेन्वयबोधनक्षम यादृशमाख्यातम् तत् परस्मैपदम् । यथा पुत्रीयतीत्यादौ परस्मैपदम् (तिप् ) । घातिता घातितारौ इत्यादौ आत्मनेपदानां निरुक्ताख्यातत्वेपि तदन्यत्वेन विशेषणान्न तत्रातिव्याप्तिः। अत्र पुत्रीयतीत्यादावेव पुत्रादीच्छाकर्तृत्व६. न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org