________________
न्यायकोशः।
४७१ कर्तृत्वम् ( सि० च० १ पृ० १०) । अथवा नित्यज्ञानादिमत्त्वेन सर्वोत्कृष्टत्वम् ( त० प्र० १ पृ० ४ )। ईश्वरस्य तज्ज्ञानादेनित्यत्वमित्थम् । सर्गाद्यवसरे परमाणुना व्यणुकं करिष्यामि इति ज्ञानस्यावश्यकत्वेन तदुत्पादकशरीरादिकारणकलापस्य तदानीं व्यतिरेकेण तस्य नित्यत्वमुररीकुर्मः । एवम् ईश्वरेच्छाकृत्योरपि नित्यत्वम् ( सि० च० १ पृ० १०) । परमात्मलक्षणं चेश्वरत्वम् । तच्च नित्यज्ञानाद्यधिकरणत्वम् (त० दी० ) ( सि० च० १ पृ० १०) ( राम० )। अत्रादिशब्देनानन्दो गृह्यते । केचित्तु श्रुतिस्थानन्दपदं दुःखाभावपरम् इत्याहुः । परमात्मसत्त्वे प्रमाणम् अनुमानम् । तच्च क्षित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वाद्धटवत् इति । क्षित्यादिमहाकार्यान्यथानुपपत्त्या स स्वीक्रियते (प्र० प्र०)। तदुक्तम् । कार्यायोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः । वाक्यात्संख्याविशेषाच्च साध्यो विश्वविदव्ययः ॥ इति ( कु० ५।१ )। संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम् । प्रत्यक्षप्रवृत्तत्वात् संज्ञाकर्मणः (वै० सू० २।१।१८-१९ )। तदर्थं चाह । क्षित्यकुरादिकं कार्य स्वर्गापूर्वादि नाम च । लिङ्गमीश्वरसद्भावे काणादाः संप्रचक्षते ॥ (त० व० आ० श्लो० ९७ पृ० १५५)। अधिकं तु न्यायकन्दल्याम् अनुमानचिन्तामण्यादौ च द्रष्टव्यम् । किंच सर्गादौ व्यवहारान्यथानुपपत्तिरेवेश्वरसत्त्वे मानम् । यः सर्वज्ञः एकः स एव चास्माकमीश्वरः (न्या० म० ४ पृ० ५) (सि० च० १ पृ०११)। अत्र द्यावाभूमी जनयन् देव एकः विश्वस्य कर्ता भुवनस्य गोप्ता यः सर्वज्ञः स सर्वविद्यस्य ज्ञानमयं तपः इत्याद्या आगमा अपि प्रमाणत्वेनानुसंधेयाः । अत्र कार्योत्पादने मतभेदाः प्रदर्श्यन्ते । शरीरमन्तरेणैवेश्वरेण मत्रादिवत्कार्योत्पादनम् इति केचिन्नैयायिकाः संगिरन्ते । अत्र सूत्राणि ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् । न पुरुषकर्माभावे फलानिष्पत्तः । तत्कारितत्वादहेतुः (गौ० ४।१।१९-२१) इत्यादीनि । शरीरहेत्वदृष्टाभावात्परमात्मा शरीररहित एवास्ति । अन्ये तु नैयायिका इत्थमाहुः । परमात्मा शरीरी। पुरुषादृष्टेन कान्ताशरीरस्येवास्मदीयादृष्टेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org