________________
४७०
न्यायकोशः। परमाणुः-१ मूर्तत्वे सति निरवयवः (त० को०)। स च जन्यद्रव्या
वयवः क्रियावान् अतीन्द्रियः निरवयवः नित्यश्चेति नैयायिकवैशेषिकाणां सिद्धान्तः। अत्र सूत्रम् न प्रलयोणुसद्भावात् ( गौ० ४।२।१४ ) इति । परमाणूनामुत्पत्तिं नाशं च स्वीकुर्वन्ति क्षणभङ्गुरवादिनो बौद्धाः । (दि. १ पृथिवी० पृ० ६७-६८ )। भूतत्वादि परमाणोर्लक्षणमिति सांख्या आहुः ( गौ० वृ० ४।१।३१ )। न्यायवैशेषिकनये परमाणुसद्भावे प्रमाणमुच्यते । जालसूर्यमरीचिस्थं सूक्ष्मतमं यद्रज उपलभ्यते तत् सावयवम् चाक्षुषद्रव्यत्वात् पटवत् इति । व्यणुकावयवोपि सावयवः महतारम्भकत्वात् तन्तुवत् इति । यो व्यणुकावयवः स एव परमाणुः । स च नित्यः । कार्यत्वेनवस्थाप्रसङ्गात् । असमवेतभावकार्योत्पत्तिप्रसङ्गाच्च । तथा च मेरुसर्षपयोरपि तुल्यत्वप्रसङ्गः इति ( त० दी० १ पृ० १०) (मु० १ पृ० ६८-६९)। परमाणुश्च परं वा त्रुटेः (गौ० ४।२।१५) इति ज्ञेयः । त्रुटेः परं यदतिसूक्ष्मं तत्परमाणुः । वाशब्दोवधारणे । अथवा त्रुटेरवयवस्तदवयवो वा परमाणुरिति विकल्पार्थो वाशब्दः । यद्वा त्रुटेः परं सूक्ष्मं परमाणुः । त्रुटावेव वा विश्रामः इति विकल्पोभिमतः ( गौ० वृ० ४।२।१५)। इदं च नवीनमतम् (दि. १ पृ० ६९)। अवयवविभागस्यानवस्थानाद्रव्याणामसंख्येयत्वात्रुटिनिवृत्तिरिति (वात्स्या० ४।२।१५) । स चायमल्पतरप्रसङ्गो यस्मानाल्पतरमस्ति यः परमोल्पस्तत्र निवर्तते यतश्च नाल्पीयोस्ति तं परमाणुं प्रचक्ष्महे इति ( वात्स्या० ४।२।१४ )। यथा जालसूर्यमरीचिस्थं यत्सूक्ष्मं दृश्यते रजः । तस्य षष्ठतमो भागः परमाणुः स उच्यते ॥ इति ( वाक्य० )। चरमस्तु विशेषाणामनेकासंयुतः सदा । परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः ॥ इति बादरायणाचार्या आहुः ( भाग० ३।१२।१ )। २ परमाण्ववच्छिन्नकालविशेषः । यथा स कालः परमाणुर्वै यो भुते
परमाणुताम् ( भाग० ३।११।५ ) इत्यादौ । परमात्मा-( आत्मा )[क] सर्वस्य द्रष्टा सर्वस्य भोक्ता सर्वज्ञः सर्वानु
भावी (वात्स्या० १।१।९)। परमत्वं चात्र प्रकृतेः सृष्टिस्थितिलय
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org