________________
न्यायकोशः। ७ त्रयाणां समवाय्यसमवायिनिमित्तानां विनाशादपि यथा यदापेक्षाबुद्धिरुत्पद्यते तदैव पिण्डावयवे कर्म । ततो यस्मिन्नेव काले कर्मणावयवान्तराद्विभागः परत्वस्योत्पत्तिः तस्मिन्नेव काले पिण्डेपि कर्म । ततो विभागात् पिण्डारम्भकसंयोगविनाशः पिण्डकर्मणा च दिक्पिण्डविभागः तदैव सामान्यबुद्धेश्वोत्पत्तिरित्येकः कालः । ततः संयोगविनाशात् पिण्डनाशः । विभागाच्च दिपिण्डसंयोगविनाशः । सामान्यज्ञानादपेक्षाबुद्धेर्विनाशः इत्यतः युगपत्रयाणां समवाय्यसमवायिनिमित्तानां विनाशात् परत्वस्य विनाशः इति ( प्रशस्त० पृ० २१-२३ )। २ [क] प्रतिपादकेच्छाविषयत्वम् ( चि० )। तञ्च शाब्दबोधप्रयोजकं तात्पर्यापरपर्यायम् । यथा हरिशब्दः सिंहपरः इत्यादौ । यथा वा सैन्धवमानयेत्यादौ भोजनसमये सैन्धवपदस्य लवणपरत्वम् इत्यादौ । [ख] तत्प्रतीतीच्छयोच्चरितत्वम् (चि० १) (मू० म०)। यथा यत्परः शब्दः स शब्दार्थः इत्यादौ । ३ अधिकदेशवृत्तित्वम् व्यापकत्वं वा । यथा सामान्यं द्विविधं प्रोक्तं परं चापरमेव च (भा० प० श्लो० ८) इत्यादौ सत्ताया द्रव्यत्वमपेक्ष्य द्रव्यत्वादेश्व पृथिवीत्वाद्यपेक्ष्य व्यापकत्वात् परत्वम् (मु० १ पृ० ३४ )। ४ सूक्ष्मत्वम् । यथा परं वा त्रुटेः (गौ० ४।२।१५) इत्यादौ त्रुटिमपेक्ष्य परमाणोः परत्वम् । ५ भिन्नत्वम् । ६ श्रेष्ठत्वम् । यथा द्वे ब्रह्मणी वेदितव्ये परं चापरम् (श्रुतिः ) इत्यादौ । ७ ब्रह्मण आयुःकालविशेषः इति पौराणिका आहुः । अत्रोक्तम् । निजेन तस्य मानेन चायुर्वर्षशतं स्मृतम् । तत्पराख्यं तदर्थं च परार्धमभिधीयते ॥ त्रीणि कल्पशतानि स्युस्तथा षष्टिर्द्विजोत्तमाः। ब्रह्मणः कथितं वर्ष पराख्यं तच्च यत्पदम् ॥ इति ( कूर्म० अ० ५ ) ( वाच० )। ८ शत्रुत्वम् इति काव्यज्ञा
आहुः ( वाच० )। परममुक्तिः-(निःश्रेयसम् ) समानाधिकरणविशेषगुणावच्छिन्नसवासनमिथ्याज्ञानध्वंसः ( न्या० सि० दी० )। यथा शुकभीष्मयुधिष्ठिरादीनां परममुक्तिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org