________________
४६८
न्यायकोशः।
विनाशो गुणबुद्धेश्वोत्पत्तिः । ततोपेक्षाबुद्धिविनाशाद्गुणस्य विनश्यत्ता गुणज्ञानतत्संबन्धेभ्यो द्रव्यबुद्धेरुत्पद्यमानतेत्येकः कालः । तत्र द्रव्यबुद्धरुत्पत्तिर्गुणस्य विनाशः इति । २ संयोगविनाशाद्यथा । अपेक्षाबुद्धिसमकालमेव परत्वाधारे कर्मोत्पद्यते । तत्कर्मणा दिपिण्डविभागः तदैव च परत्वस्योत्पत्तिरित्येकः कालः । ततः सामान्यबुद्धेरुत्पत्तिः दिक्पिण्डसंयोगस्य विनाशः । ततो यस्मिन्काले गुणबुद्धिरुत्पद्यते तस्मिन्नेव काले दिपिण्डसंयोगविनाशाद्गुणस्य विनाशः । ३ द्रव्यविनाशादपि यथा परत्वाधारावयवे कर्मोत्पन्नं यस्मिन्नेव कालेवयवान्तराद्विभागं करोति तस्मिन्नेव कालेपेक्षाबुद्धिरुत्पद्यते । ततो विभागाद्यस्मिन्नेव काले संयोगविनाशस्तस्मिन्नेव काले परत्वमुत्पद्यते । ततः संयोगविनाशाद्रव्यविनाशः । तद्विनाशाच्च तदाश्रितस्य गुणस्य विनाशः । ४ द्रव्यापेक्षाबुद्ध्योयुगपद्विनाशादपि यथा यदा परत्वाधारावयवे कर्मोत्पद्यते तदैवापेक्षाबुद्धिरुत्पद्यते । कर्मणा तदवयवान्तराद्विभागः तदैव च परत्वस्योत्पत्तिरित्येकः कालः । ततो यस्मिन्नेव काले विभागात्संयोगविनाशस्तस्मिन्नेव काले सामान्यबुद्धिरुत्पद्यते । तदनन्तरं संयोगविनाशाद्रव्यविनाशः सामान्यबुद्धरपेक्षाबुद्धिनाश इत्येकः कालः। ततो द्रव्यापेक्षाबुद्ध्योर्विनाशात्परत्वस्य विनाशः। ५ द्रव्यसंयोगविनाशादपि यथा यदा परत्वाधारावयवे कर्मोत्पन्नमवयवान्तराद्विभागं करोति तस्मिन्नेव काले पिण्डकर्मापेक्षाबुद्ध्योयुगपदुत्पत्तिः। ततो यस्मिन्नेव काले परत्वस्योत्पत्तिस्तस्मिन्नेव काले अवयवविभागाद्व्यारम्भकसंयोगविनाशः पिण्डकर्मणा दिपिण्डविभागश्च क्रियते । ततो यस्मिन्नेव काले सामान्यबुद्धिरुत्पद्यते तत्समानकालमवयवसंयोगविनाशात् पिण्डविनाशः दिपिण्डविभागाच पिण्डसंयोगनाशः। ततो गुणबुद्धिसमानकालं पिण्डदिपिण्डसंयोगयोर्विनाशात् परत्वस्य विनाशः।६ संयोगापेक्षाबुद्ध्योर्युगपद्विनाशादपि यथा यदा परत्वमुत्पद्यते तदा परत्वाधारकर्म । ततो यस्मिन्नेव काले परत्वसामान्यबुद्धिरुत्पद्यते तस्मिन्नेव काले पिण्डकर्मणा दिपिण्डविभागः क्रियते । ततः सामान्यबुद्धितोपेक्षाबुद्धिनाशो विभागाच्च दिपिण्डसंयोगविनाश इत्येकः कालः । ततः संयोगविनाशादपेक्षाबुद्धिनाशात्परत्वस्य विनाशः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org