________________
न्यायकोशः ।
४६७
।
द्रष्टुः संनिकृष्टमवधिं कृत्वा तस्माद्विप्रकृष्टोयम् इति परत्वाधारे विप्रकृष्टा बुद्धिरुत्पद्यते । ततस्तामपेक्ष्य परेण दिक्प्रदेशेन संयोगात्परत्वस्योत्पत्तिः । विप्रकृष्टं चावधिं कृत्वा परस्मात् संनिकृष्टोयम् इत्यपरत्वाधार इतरस्मिन् संनिकृष्टा बुद्धिरुत्पद्यते । तामपेक्ष्यापरेण दिग्देशेन संयोगादपरत्वस्योत्पत्तिः ( प्रशस्त० पृ० २० - २१ ) । अत्र द्विविधयोः परत्वापरत्वयोशकोपेक्षा बुद्धिनाश: इति मुक्तावलीकार आह । उपस्कारे तु त्रिविधकारणनाशस्यैव परत्वापरत्वनाशकत्वमुक्तम् (वै० वि० ७/२/२१ ) । नाशो दैशिकयोर्ज्ञेयः सप्तधा शांकरे मते । निमित्तस्य विनाशाद्वासमवायिन एव वा ॥ समवायिविनाशाद्वा निमित्तासमवायिनोः । नाशाद्वापि विनाशाद्वा निमित्तसमवायिनोः ॥ निमित्तभिन्नयोर्वापि नाशात्कारणयोः क्वचित् । विनाशादपि सर्वेषां हेतूनामेकदैव वा ॥ इति ( त० व० २१० ) । अथ परत्वापरत्वयोः कालकृतयोरुत्पत्तिरभिधीयते । वर्तमानयोरनियतदिग्देश संयुक्तयोर्युवस्थविरयो रूढश्मश्रुकार्कश्यवलीपलितादिसांनिध्ये सत्येकस्य द्रष्टृर्युवानमवधिं कृत्वा स्थविरे विप्रकृष्टा बुद्धिरुत्पद्यते । ततस्तामपेक्ष्य परेण कालप्रदेशेन संयोगात्परत्वस्योत्पत्तिः । स्थविरमवधिं कृत्वा यूनि संनिकृष्टा बुद्धिरुत्पद्यते तदा तामपेक्ष्यापरेण कालप्रदेशेन संयोगादपरत्वस्योत्पत्तिः : ( प्रशस्त ० पृ० २१ ) । इदं च बोध्यम् । त्रिधा कालिकयोः समवायिविनाशतः । निमित्तनाशतो वाभ्यामुभाभ्यां वापि कुत्रचित् ॥ निमित्तमात्रनाशेन तन्नाशः कस्यचिन्मते इति ( त० ब० २११ ) । विनाशस्त्वपेक्षा बुद्धिसंयोगद्रव्यनाशात् इति प्रशस्तपादाचार्या : (प्रशस्त ० पृ० २९ ) । १ अपेक्षा बुद्धिविनाशात् २ संयोगविनाशात ३ द्रव्यविनाशात् ४ द्रव्यापेक्षा बुद्ध्योर्युगपद्विनाशात् ५ द्रव्यसंयोगविनाशात् ६ संयोगापेक्षा बुद्ध्योर्युगपद्विनाशात् ७ त्रयाणां समवाय्यसमवायिनिमित्तानां विनाशाच्चेति तदर्थः । तथाहि । १ उत्पन्न परत्वे यस्मिन्काले सामान्यबुद्धिरुत्पन्ना भवति ततोपेक्षाबुद्धिर्विनश्यत्ता सामान्यज्ञानतत्संबन्धेभ्यः परत्वगुणबुद्धेरुत्पद्यमानतेत्येकः कालः । तत्रापेक्षा बुद्धे१ असमवायिनः इति पदच्छेदः ।
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org