________________
४६६
न्यायकोशः। कपरत्वव्यवहारस्योत्पत्तेन परत्वस्य गुणान्तरत्वमित्याहुः ( दि० गु० पृ० २०९)। वस्तुतस्तु विप्रकृष्टत्वज्ञानात्परत्वमुत्पद्यत इति विप्रकृष्टत्वात्परत्वं भिन्नमेवेति वैशेषिकसूत्रात् ( ७।२।२१ ) प्रतिभाति। [ख] परत्वत्वजातिमत् । परव्यवहारासाधारणकारणम् । परत्वं द्विविधम् । दिक्कतम् कालकृतं च । तथा च परव्यवहारो द्विविधः। यथा अयं ज्येष्ठः अयं दूरः इति ( वाक्य० १ पृ० ८)। तत्र दूरस्थे दिकृतं परत्वम् । ज्येष्ठे कालकृतं परत्वम् (त० सं०)। यो यदपेक्षया दूरस्थः तत्र तदवधिकं परत्वं दिकृतम् । अत्र दिपिण्डसंयोगोसमवायिकारणम् । दूरत्वज्ञानं निमित्तम् । तन्नाशश्च तन्नाशनिमित्तम् । यो यदपेक्षया ज्येष्ठः तत्र तदवधिकं परत्वं कालकृतम् । अत्र कालपिण्डसंयोगोसमवायिकारणम् । ज्येष्ठत्वज्ञानं निमित्तम् । तन्नाशश्च तन्नाशनिमित्तम् इति (त० कौ० पृ० ६ ) । दिकृतं परत्वं मूर्तमात्रवृत्ति भवति । कालकृतं परत्वं तु जन्यद्रव्यमात्रवृत्ति भवतीति ज्ञेयम् ( सि० च० १ पृ०१८) ( त० कौ० १ पृ० ६ ) । अत्रेदं बोध्यम् । दिकृतत्वं च ज्ञायमानदिग्जन्यत्वम् । तथाहि वैराजाद्वेणासंगमापेक्षया करहाटकं स्वसमवायिसंयुक्तसंयोगेन बहुतरदेशसंयोगवत् इति ज्ञानेन दैशिकपरत्वम् उत्पद्यते । तच्च इदमस्माद्विप्रकृष्टम् इत्यपेक्षाबुद्ध्या जायते (दि. १ ) । तत्र च संबन्धघटकतया दिशः प्रवेशात्तजन्यत्वं बोध्यम् (वाक्य० १ पृ०८)। एवम् पाटलिपुत्रात् काशीमपेक्ष्य प्रयागः परः झळकीप्रामाद्विजयपुरमपेक्ष्य कृष्णानदी परा इत्यत्रापि ज्ञेयम् । कालकृतत्वं च स्वसमवायिसंयुक्त
संयोगसंबन्धेन रविक्रियाप्रकारकज्ञानविषयकालजन्यत्वात् तत्संबन्ध. घटककालजन्यत्वरूपम् स्वसंयोगजन्यत्वरूपं वा ( वाक्य० १ पृ० ८)। - तच्च अयमस्माद्बहुतरकालसंबद्धः इत्यपेक्षाबुद्ध्या जन्यते (दि. १)। . अथवा बहुतरदिवाकरक्रियाविशिष्टशरीरज्ञानात्कालिकपरत्वोत्पत्तिरिति
(सि० च०)। यथा रामो लक्ष्मणापेक्षया ज्येष्ठ इत्यादी लक्ष्मणस्य सूर्यपरिस्पन्दापेक्षया रामस्य सूर्यपरिस्पन्दा अधिकाः इति रामो ज्येष्ठः। विशेषस्तु अन्यत्र (वै० उ० ७।२।२१) द्रष्टव्यः । तत्र दिकृतस्योत्पत्तिरभिधीयते। एकस्यां दिश्यवस्थितयोः पिण्डयोः संयुक्तसंयोगबह्वल्पभावे सत्येकस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org